अध्यायः 111

कृष्णेन युधिष्टिरंप्रत्यग्निसृष्टिप्रकारकथनम् ॥ 1 ॥ आहवनीयादित्वेन तद्विभागकथनपूर्वकं तत्तन्नामनिर्वचनम् ॥ 2 ॥ तथा यज्ञाग्निहोत्रप्रशंसनम् ॥ 3 ॥

युधिष्ठिर उवाच ।

स्वभक्तस्य हृषीकेश धर्माधर्ममजानतः ।
धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे ॥
भगवानुवाच ।
यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु । मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम् ।
आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम् ॥
युधिष्ठिर उवाच ।
कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम् ।
वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत् ॥
कस्मिन्काले कतं कस्य आधेयोऽग्निः सुरोत्तम ।
आहितस्य कथं वाऽपि सम्यगाचरणं भवेत् ॥
कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो ।
कतरस्मिन्हुते स्थाने कं व्रजेदाग्निहोत्रिकः ॥
अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ ।
कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम् ॥
विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम् ।
कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः ॥
दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः ।
किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव ॥
उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति । एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे ।
वक्तुमर्हसि सर्वज्ञ सर्वाधिकं नमोस्तु ते ॥
भगवानुवाच ।
शृणु राजन्महापुण्यमिदं धर्मामृतं परम् ।
यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः ॥
ब्र्हमित्वेनासृजं लोकानहमादौ महाद्युते ।
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया ॥
यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया ।
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः ॥
यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते ।
आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते ॥
यस्माच्च तु नयत्यग्रां गतिं विप्रान्सुपूजितः ।
यस्माच्च नयनाद्राजन्देवेष्वग्नीति कथ्यते ॥
तस्माच्च दुर्हुतः सोयमलं भक्षयितुं क्षणात् ।
यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः ॥
सर्वभूतात्मको राजन्देवानामेष वै मुखम् ।
प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः ॥
सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु ।
ततः प्रशमितः सोग्निरूपास्यैव मया पुरा ॥
सततोपासनात्सोयमौपासन इति स्मृतः ॥
आहुतिः सर्वमाख्याति तस्मिन्वसति सोनलः ।
आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः ॥
तस्मात्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः ।
सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः ॥
ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः ।
गता ह्यमरसायुज्यं ते ह्यग्न्यर्चनतत्पराः ॥
अपरे चावसथ्यं च पचनाग्निं प्रचक्षते ।
तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते ॥
स्थलीपाकं च गार्हं च सर्वे चास्मिन्प्रतिष्ठिताः ।
गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः ॥
औपासनं चावसथ्यं सभ्यं पचनपावकम् ।
आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च ॥
अग्निहोत्रप्रकारं च शृणु राजन्समाहितः ।
त्रयाणां गुणनामानां वह्नीनामुच्यते मया ॥
गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम् ।
गृहपत्यं तु यस्यासीत्तत्तस्माद्गार्हपत्यता ॥
यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत् ।
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः ॥
आहुतिः सर्वमाख्याति हव्यं वै वहनं स्मृतम् ।
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम् ॥
यं चाक्सथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः ।
आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते ॥
तेषां स भागतो वह्निः सभ्य इत्यभिधीयते ।
आवतथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः ॥
ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोभवत् ।
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः ॥
अहमाहवनीयोऽग्निराहोमाद्यस्य वै मुखे ।
सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप ॥
पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः ।
स्वर्गमाहवनीयोऽग्निरेवमग्नित्रयं स्मृतम् ॥
वृत्तश्च गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी ।
अर्धचन्द्राकृतिस्तं वै दक्षिणाग्निस्तथा भवेत् ॥
चतुरश्रं ततः स्वर्गं निर्मलं तु निरामयम् ।
तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप ॥
जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः ।
जुहोति दक्षिणं यस्तु स जयत्यन्तरिक्षकम् ॥
पृथिवीमन्तरिक्षं च दिवं ऋषिगणैः सह ।
जयत्याहवनीयं यो जुहुयाद्भक्तिमान्नरः ॥
आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते ।
तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः ॥
आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः ।
यस्मात्तस्मात्प्रवर्तन्ते ततो ह्याहवनीयता ॥
यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः ।
स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते ॥
इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत् ।
त्राणाद्वै यजमानस्य ह्यग्निहोत्रमिति स्मृतम् ॥
होइज्येषु विषादो वै विषादो दुःखमुच्यते ।
दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः ॥
आध्यात्मिकं चाधिदैवमाधिभौतिकमेव च ।
एतत्तापत्रयं प्रोक्तमात्मविद्भिर्नराधिप ॥
यस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः ।
तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ ॥
तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा ।
वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु ॥
अग्निहोत्रफला दारा दत्तभुक्तफलं धनम् ॥
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥
त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते ।
ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः ॥
वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप ।
वसन्तो ब्राह्मणो ज्ञेयो वेदयोनिः स उच्यते ॥
अग्न्याधेयं तु येनाथ वसन्ते क्रियतेऽनघ ।
तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते ॥
क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप । येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते ।
श्रीः प्रजाःक पशवश्चैव वित्तं तेजो बलं यशः ॥
शरदृतौ तु वैश्यस्य ह्याधानीयो हुताशनः ।
शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते ॥
शरद्याधानमेवं वै क्रियते येन पाण्डव ।
तस्यापि श्रीः प्रजाऽऽयुश्च पशवोऽर्थश्च वर्धते ॥
पशवः सर्व एवैते त्रिभिः सर्वैरलङ्कृताः ।
अग्निहोत्रा ह्यवर्तन्ते तैरेव ध्रियते जगत् ॥
ग्राम्यारण्याश्च पशवो पृक्षाश्चैव तृणानि च ।
फलान्योषधयश्चापि अग्निहोत्रकृते हविः ॥
रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा ।
काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन् ॥
आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम् ॥
छन्दः शिक्षा च कल्पश्च तथा व्याकरणानि च ।
शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम् ॥
इतिहासपुराणं च गाथाश्चोपनिषत्तथा ।
आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम् ॥
यच्चैतस्यां पृथिव्यां वै किंचिदस्ति चराचरम् ।
तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयंभुवा ॥
अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ ।
युपेष्टिपशुबन्धानां सोमपानक्रियावताम् ॥
तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम् ।
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुराऽनघ ॥
ऋग्यजुः साममन्त्राणां श्लोकतत्वार्थचिन्तनात् ।
प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रल्पितम् ॥
वर्णाक्षरपदार्थानां सन्धिलिङ्गं प्रकीर्तितम् ।
नामधातुविवेकार्थं पुरा व्याकरणं स्मृतम् ॥
यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु ।
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम् ॥
यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च ।
सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम् ॥
नामधातुविकल्पानां तत्वार्थनियमाय च ।
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम् ॥
वेद्यर्थं पृथिवी सृष्टा संभारार्थ तथैव च ।
इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम् ॥
ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात् ।
मन्त्राणां विनियोगं च प्रोक्षितं श्रपणं तथा ॥
अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा ।
औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च ॥
विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा ।
त्रिकासमर्चनं चैव स्यानेषूपहृतं तथा ॥
देवताग्रहणं मोक्षं हविषां श्रपणं तथा । नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम् ।
ते यान्ति नरकं घोरं रौरवं तमसाऽऽवृतम् ॥
शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः ।
कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते ॥
वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा ।
तृणानीच्छन्ति बर्हिष्ट्वमोषध्यश्च हविष्यताम् । सोमत्वं च लताः सर्वा वेदित्वं च वसुंधर ॥
यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया ।
तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव ॥
यूपास्तन्मन्त्रसंस्कारैर्दर्भाश्च पशवस्तथा ।
यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर ॥
यावत्कालं हि यज्वा वै स्वर्गलोके महीयते ।
तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः ॥
अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम् । वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून्द्विजाः ।
सद्यः शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि ॥
गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च ।
सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च ॥
दर्भाः संस्तरणार्तं तु रक्षसां रक्षणाय च ।
पजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः ॥
क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः ।
शुश्रूषार्थं त्रयाणां वै शूद्राः सृष्टाः स्वयंभुवा ॥
एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम् ।
नावबुध्यन्ति ये चैव नरास्तु तमसा वृताः ॥
ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम् ।
रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते ॥
यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः ।
तैर्दत्तं सहुतं चेष्टं दत्तमध्यापितं भवेत् ॥
एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप ।
तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम् ॥
मया स्थापितमादित्ये लोकस्य सुकृतं हि तत् ।
धारयेद्यत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम् ॥
यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः ।
तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे ॥
स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान् । तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत्फलम् ।
समानरूपा देवानां तिष्ठन्त्याबूतसंप्लवम् ॥
वृथाऽग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः ।
न तेऽग्निहोत्रिणां लोके मानसाऽपि व्रजन्ति ते ॥
वीरघ्रास्तु दुराचारा दरिद्रास्तु नराधमाः ।
विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु ॥
तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः ।
होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम् ॥
आत्मवन्नावमन्तव्यमग्निहोत्रं युधिष्टिर ।
न त्याज्यं क्षणिमप्येतदग्निहोत्रं युधिष्ठिर ॥
वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः ।
शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः ॥
पञ्चयज्ञपरा नित्यं लोभक्रोधविवर्जिताः ।
द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः ॥
तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः ।
मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर ॥
मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः ।
इह मानुष्यके लोके जायन्ते द्विजसत्तमाः ॥
बालाहिताग्रयो ये च शूद्रान्नाद्विरताः सदा । क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः ।
यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः ॥
आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः ।
ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम् ॥
मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः ।
तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः ॥
ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम् ।
इत्येषामाहिताग्नीनां विभूतिः पाण्डुनन्दन ॥
श्रुतिं केचिन्निन्दमानाः श्रुतिं दूष्यन्त्यबुद्धयः । प्रमाणं न च कुर्वन्ति ये यान्तीहापि दुर्गतिम् ।
प्रमाणमितिहासं च वेदान्कुर्वति ये द्विजाः ।
ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकादशाधिकशततमोऽध्यायः ॥

श्रीः