अध्यायः 112

कृष्णेन युधिष्ठिरंप्रति चान्द्रायणविधिनिरूपणपूर्वकं तदाचरणफलकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज ।
चान्द्रायणविधिं पुण्यमाख्याहि भगवन्मम ॥
भगवानुवाच ।
शृणु पाण्डव तत्वेन सर्वपापप्रणाशनम् ।
पापिनो येन शुद्ध्यन्ति तत्ते वक्ष्यामि सर्वशः ॥
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा चरितव्रतः ।
यथावत्कर्तुकामो वै तस्यैवं प्रथमा क्रिया ॥
शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितः ।
सशिरः कृष्णपक्षस्य ततः कुर्वीत वापनम् ॥
शुक्लवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम् ।
पालाशद्ण्डमादाय ब्रह्मचारिव्रते स्थितः ॥
कृतोपलासः पूर्वं तु शुक्लप्रतिपदि द्विजः । नदीसंगमतीर्थेषु शुचौ देशे गृहेऽपि वा ।
गोमयेनोपलिप्रेऽथ स्थण्डिलेऽग्निं निधापयन् ॥
आघारावाज्यभागौ च प्रणवं व्याहृतीस्तथा ।
वारुणं चैव पञ्चैव हुत्वा सर्वान्यथाक्रमम् ॥
सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे ।
विश्वेभ्यो हि च देवेभ्यः सप्रजापतये तथा ॥
षडुक्त्वा जुहुयात्पश्चात्प्रायश्चित्ताहुतिं द्विजः ।
अतः समापयेदग्निं शान्तिं कृत्वाऽथ पौष्टिकिम् ॥
प्रणम्य् चाग्निं सोमं च भस्म दिग्ध्वा यथाविधि । नदीं गत्वा विशुद्धात्मा सोमाय वरुणाय च ।
आदित्याय नमस्कृत्वा ततः स्नायात्समाहितः ॥
उत्तीर्योदकमाचम्य चासीनः पूर्वतोमुखः ।
प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम् ॥
आचान्तस्त्वमिवीक्षेत ऊर्ध्वबाहुर्दिवाकरम् ।
कृताञ्जलिपुटः स्थित्वा कुर्याच्चैव प्रदक्षिणम् ॥
नारायणं वा रुद्रं वा ब्रह्मणमथवाऽपि च ।
वारुणं मन्त्रमूक्तं वा प्राग्भोजनमथापि वा ॥
वीरघ्नमृषभफं वाऽपि तथा चाप्यघमर्षणम् । गायत्रीं मम देवीं वा सावित्रीं वा जपेत्ततः ।
शतं वाऽष्टशतं वाऽपि सहस्रमथवा परम् ॥
ततो मध्याह्नकाले वै पायसं यावकं हि वा ।
पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः ॥
पात्रं तु सुसमादाय सौवर्णं राजतं तु वा । ताम्रं वा मृन्मयं वापि औदुंबरमथापि वा ।
वृक्षाणां याज्ञियानं तु पर्णैरार्द्रैरकुत्सितैः ।
पुटकेन तु गुप्तेनि चरेद्भैक्षं समाहितः ॥
ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत् ।
गोदोहमात्रं तिष्ठित्तु वाग्यतः संयतेन्द्रियः ॥
न हसेन्न च वीक्षेत नाभिभाषेत वा स्त्रियम् ॥
दृष्ट्वा मूत्रं पुरीषं वा चण्डालं वा रजस्वलाम् ।
पतितं च तथा श्वानमादित्यमवलोकयेत् ॥
यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः ।
तं दृष्ट्वा पापकर्माणमादित्यमवलोकयेत् ॥
ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले । प्रक्षाल्य पादावाजान्वोर्हस्तावाकूर्परं पुनः ।
आचम्य वारिणा तेन वह्निं विप्रांश्च पूययेत् ॥
पञ्च सप्ताथवा कुर्याद्भागान्भैक्षस्य तस्य वै ।
तेषामन्यतमं पिण्डमादित्याय निवेदयेत् ॥
ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च ।
विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम् ॥
अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत् ॥
अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत् । अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात्प्राङ्मुखःक शुचिः ।
यथा च वर्धते सोमो ह्रसते च यथा पुनः ।
तथा पिण्डाश्च वर्धन्ते ह्रसन्ते च दिनेदिने ॥
त्रिकालं स्नानमस्योक्तं द्विकालमथवा सकृत् ।
ब्रह्मचारी सदा वाऽपि न च वस्त्रं प्रपीडयेत् ॥
स्थान न दिवसं तिष्ठेद्रात्रौ वीरासनं व्रजेत् ।
भवेत्स्थण्डिलशायी वाऽप्यथा वृक्षमूलिकः ॥
वल्कलं यदि वा क्षौमं शाणं कार्पासकं तथा ।
आच्छादनं भवेत्तस्य वस्त्रार्थं पाण्डुनन्दन ॥
एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान् ।
ब्राह्मणान्भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम् ॥
चान्द्रायणेन चीर्णेन यत्कृतं तेन दुष्कृतम् ।
तत्सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत् ॥
ब्रह्महत्या च गोहत्या सुवर्णस्तैन्यमेव च ।
भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः ॥
एवमन्यानि पापानि पातकीयानि यानि च ।
चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा ॥
अनिर्दशाया गोः क्षीरमौष्ठ्रमाविकमेव च ।
मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत् ॥
उपपातकिनश्चान्नं पतितान्नं तथैव च ।
शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत् ॥
आकाशस्थं तु हस्तस्थमधः स्रस्तं तथैव च ।
परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत् ॥
अथाग्रेधिषोरन्नं दिधिषूपपतेस्तता ।
परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च ॥
कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च ।
तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥
सुराऽऽसवं विषं सर्पिर्लाक्षा लवणमेव च ।
तैलं चापि च विक्रीणन्द्विजश्चान्द्रायणं चरेत् ॥
एकोद्दिष्टं तु यो भुङ्क्ते जनमध्यगतोऽपि यः ।
भिन्नभाण्डेषु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥
यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह ।
कन्यया सह यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥
उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे ।
दद्याद्वा यदि वा मोहाद्विजश्चान्द्रायणं चरेत् ॥
तुम्बकोशातकं चैव पलाण्डुं गृञ्जनं तथा ।
छत्राकं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ॥
द्विजः पर्युषितं चान्नं पक्वं परगृहागतम् ।
विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत् ॥
उदक्यया शुना वाऽपि चण्डालैर्वा द्विजोत्तमः ।
दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत् ॥
****तत्पुरा विशुद्ध्यर्थमृषिभिश्चरितं व्रतम् ।
पावनं सर्वभूतानां पुण्यं पाण्डवचोदितम् ॥
एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः ।
एतदद्य परं गुह्यं पवित्रं पापनाशनम् ॥
यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम् ॥
स दिवं याति पूतात्मा निर्मलादित्यसंनिभः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥

श्रीः