अध्यायः 113

कृष्णेन युधिष्ठिरंप्रति कार्तिकादिद्वादशमासेषु एकभुक्तव्रताचरणप्रकारनिरूपणपूर्वकं तत्फलकथनम् ॥ 1 ॥

वैशंपायन उवाच ।

केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे ।
अपृच्छत्पुनरन्यांश्च धर्मान्धर्मात्मजो नृप ॥
युधिष्ठिर उवाच ।
सर्वभूतपते श्रीमन्सर्वभूतनमस्कृत ।
सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व नः ॥
भगवानुवाच ।
यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत् ।
सर्वपापप्रशमनं तच्छृणुष्व युधिष्टिर ॥
कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः ।
तेष्वेकबुक्तनिमः सर्वेषामुच्यते मया ॥
कार्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः ।
एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते ॥
जलं वा न पिबेन्मासे नान्तरं भोजनात्परम् ।
आदित्यरूपं मां नित्यमर्चयन्सुसमाहितः ॥
व्रतान्ते भोजयेद्विप्रान्दक्षिणां सम्प्रदाय च ।
क्रोधलोभविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥
विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम् । तत्पुण्यं समनुप्राप्य सूर्यकलोके महीयते ।
ततश्चापि च्युतः कालात्पुरुषेषूपजायते ॥
मार्गशीर्षं तु यो मासमेकभुक्तेन वर्तते ।
कामं क्रोधं च लोभं च परित्यज्य यथाविधि ॥
स्नात्वा चादित्यरूपं मामर्ययेन्नियतेन्द्रियः ।
जपेच्चैव च गायत्रीं मामिकां वाग्यतेन्द्रियः ॥
मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचिः ।
तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु ॥
अग्निहोत्रे कृते पुण्यमाहिताग्नेस्तु यद्भवेत् । तत्पुण्यं फलमासाद्य योनेनांऽबरशोभिना ।
सह सप्तर्षिलोकेषु यथाकामं यथासुखम् ॥
ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते ।
तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति ॥
******** क्षिपेदेवमेकभुक्तेन यो नरः ।
अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना ॥
अहिंसासत्यसहितः क्रोधहर्षविवर्जितः ।
एवं युक्तस्य राजेन्द्र शृणु यत्फलमुत्तमम् ॥
विप्रातिथ्यसहस्रेषु यत्पुण्यं समुदाहृतम् ।
तत्पुण्यं समनुप्राप्य शक्रलोके महीयते ॥
अवतीर्णस्ततः कालादिलावर्षेषु जायते ।
तत्र स्थित्वा चिरं कालमस्मिन्विप्रो भविष्यति ॥
माघमासं सदा यस्तु वर्तते चैकभुक्ततः । मदर्चनपरो भूत्वा डंभक्तोधविवर्जितः ।
मामिकामपि सावित्रीं सन्ध्यायां तु जपेद्बुधः ॥
दत्त्वा दु दक्षिणामन्ते भोजयित्वा द्विजानपि । नमिस्करोति तान्भक्त्या मद्गतेनान्तरात्मना ।
त्रिकालस्नानयुक्तस्य तस्य पुण्यफलं शृणु ॥
नीलकण्ठप्रयुक्तेन योनेनांऽबरशोभिना ।
पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोप्सरोणैः ॥
तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते ।
ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले ॥
यश्चरेत्फाल्गुनं मासमेकभुक्तो जितेन्द्रियः ।
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत्सदा ॥
पायसं भोजयेद्विप्रान्व्रतान्ते संयतेन्द्रियः ।
मदर्चनपरोऽक्रोधस्तस्य पुण्यफलं शृणु ॥
विमानं सारसैर्युक्तमारूढः कामगामि च ।
नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः ॥
ततश्चापि च्युतः कालात्केतुमालेषु जायते ।
तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत् ॥
चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते ।
ब्रह्मचारी च मद्भक्त्या तस्य पुण्यफलं शृणु ॥
यदग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः ।
तत्पुण्यफकलमासाद्य चन्द्रलोके महीयते ॥
ततोऽवतीर्णो जायेत वर्षे रमणके पुनः ।
भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति ॥
वैशाखे यस्तु मासे वै ह्येकभुक्तेन वर्तते ।
द्विजमग्रासने कृत्वा भुञ्जन्भूमौ च वाग्यतः ॥
नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम् ।
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥
फलं यद्विधिवत्प्रोक्तमग्निष्टोमातिरात्रयोः ।
तत्पुण्यफलमासाद्य देवलोके महीयते ॥
ततो हैमवते वर्षे जायते कालपर्ययात् ।
तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति ॥
ज्येष्ठमासं तु यो विप्रो ह्येकभुक्तेन वर्तते ।
विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ॥
नमो ब्रह्मण्यदेवायेत्युच्चरन्मां समाहितः ।
डंभानृतविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥
चीर्णे चान्द्रायणे सम्यग्यत्पुण्यं समुदाहृतम् ।
तत्पुण्यफलमासाद्य देवलोके महीयते ॥
अथोत्तरकुरौ वर्षे जायते निर्गतस्ततः ।
ततश्चापि च्युतः कालादिह लोके द्विजो भवेत् ॥
आषाढमासं यो राजन्नेकभुक्तेन वर्तते ।
ब्रह्मचारी जितक्रोधो मदर्चनपरायणः ॥
विप्रमग्रासने कृत्वा भूमौ भुञ्जञ्जितेन्द्रियः ।
कृत्वा त्रिषवणं स्नानमष्टाक्षरविधानतः ॥
व्रतान्ते भोजयेद्विद्वान्पायसेन युधिष्ठिर ।
गुडोदनेन राजेन्द्र तस्य पुण्यफलं शृणु ॥
कपिलाशतदानस्य यत्पुण्यं पाण्डुनन्दन ।
तत्पुण्यफलमासाद्य देवलोके महीयते ॥
ततोऽवतीर्णः काले तु शाकद्वीपे तु जायते ।
ततश्चापि च्युतः कालादिह विप्रो भविष्यति ॥
श्रावणं यः क्षिपेन्मासमेकभुक्तेन वर्तते । नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत्सदा ।
विप्रमाग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ॥
पायसेनार्चयन्विप्राञ्जितक्रोधो जितेन्द्रियः ।
लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥
कपिलादानस्य यत्पुण्यं विधिदत्तस्य पाण्डव ।
तत्पुण्यं सम***प्राप्य शक्रलोके महीयते ॥
ततश्चापि च्युत कालात्कुशद्वीपे प्रजायते ।
तत्रि प्रकामं क्रीडित्वा विप्रो भवति मानुषे ॥
यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते ।
ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः ॥
विप्रमग्रासने कृत्वा पाकभेदविवर्जितः ।
नमो ब्रह्मण्यदेवायेत्युक्त्वाऽस्य चरणौ स्पृशेत् ॥
तिलानपि घृतं वाऽपि व्रतान्ते दक्षिमां ददत् ।
मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु ॥
यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः ।
तत्पुण्यफलमासाद्य शक्रलोके महीयते ॥
ततश्चापि च्युतः कालाज्जायते धनदालये ।
तत्र प्रकामं क्रीकडित्वा राजा भवति मानुषे ॥
यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते । मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना ।
द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टोत्तरं तु वा ॥
विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः ।
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥
अश्वमेधस्य यत्पुण्यं विधिवत्पाण्डुनन्दन ।
तत्पुण्यफलमासाद्य मम लोके महीयते ॥
ततश्चापि च्युतः कालाच्छ्वेतद्वीपे प्रजायते ।
तत्र भुक्त्वा च भोगांश्च ततो विप्रवरो भवेत् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधऱ्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥

श्रीः