अध्यायः 007

अश्वमेधपर्व ॥ 1 ॥

संवर्तमरुत्तसंवादः ॥ 1 ॥ संवर्तेन समयबन्धनपूर्वकं मरुत्तंप्रति याजनप्रतिज्ञानम् ॥ 2 ॥

संवर्त उवाच ।

कथमस्मि त्वया ज्ञातः केन वा कथितोस्मि ते ।
एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम् ॥
सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः ।
मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति ॥
मरुत्त उवाच ।
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि ।
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ॥
संवर्त उवाच ।
सत्यमेतद्भवानाह स मां जानाति सत्रिणम् ।
कथयस्व तदेतन्मे क्वनु सम्प्रति नारदः ॥
मरुत उवाच ।
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः ।
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ॥
व्यास उवाच ।
श्रुत्वा तु पार्थिवस्यैत्संवर्तः प्रमुदं गतः ।
एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत् ॥
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव ।
रूक्षया ब्राह्मणि राजन्पुनः पुनरथाब्रवीत् ॥
वातप्रधानेन मया स्वचित्तवशवर्तिना ।
एवं विकृतरूपेण कथं याजितुमिच्छसि ॥
भ्राता मम समर्थश्च वासवेन च सङ्गतः ।
वर्तते याजने चैव तेन कर्माणि कारय ॥
गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः ।
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ॥
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् ।
याजयेयं कथंचिद्वै स हि पूज्यतमो मम ॥
स त्वं बृहस्पतिं गच्च तमनुज्ञाप्य चाव्रज ।
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ॥
मरुत्त उवाच ।
बृहस्पतिं गतः पूर्वमहं संवर्ते तच्छृणु ।
न मां कामयते याज्यं मुनिर्वासववारितः ॥
अमरं याज्यमासाद्य याजयिष्ये न मानुषम् ।
शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजये ॥
स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः ।
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः ॥
स मामधिगतं प्रेम्णा याज्यत्वे न बुभूषति ।
देवराजं समाश्रित्य तद्विद्धि मुनिपुङ्गव ॥
सोहमिच्छामि भवता सर्वस्वेनापि याजितुम् ।
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ॥
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् ।
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति ॥
संवर्त उवाच ।
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् ।
यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ॥
याज्यमानं मया हि त्वां बृहस्पतिपुंरदरौ ।
द्विषेतां समभिक्रुद्धावेतदेकं समर्थये ॥
स्थैर्यमत्र कथं मे स्यात्स त्वं निःसंशयं कुरु ।
कुपितस्त्वां न हीदानीं भस्म कुर्या सवान्धवम् ॥
मरुत्त उवाच ।
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः ।
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि ॥
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् ।
विषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि ॥
संवर्त उवाच ।
आविक्षित शुभा बुद्धिर्वर्ततां तव कर्मसु ।
याजनं हि ममाप्येव वर्तते हृदि पार्थिव ॥
अभिधास्ते च ते राजन्नक्षयं द्रव्यमुत्तमम् ।
येन देवान्सग्धर्वाञ्शक्रं चाभिभविष्यसि ॥
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः ।
विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयो ॥
गमयिष्यामि शक्रेण समतामपि ते ध्रुवम् ।
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

7-7-1 मे सत्यं जीवितं चेत्प्रियंतवेति क.थ.पाठः ॥ 7-7-4 सत्रिणं कपटवेषच्छन्नम् ॥ 7-7-6 अहमप्येनं कुर्यामिति तमब्रवीदिति क.थ.पाठः ॥ 7-7-8 मधुप्रयोगदानेन स्वचित्तपरिवर्तिनेति क.थ.पाठः ॥ 7-7-23 भोगेषु सम्यग्भोगांश्च त्यजेयमिति क.थ.पाठः ॥

श्रीः