अध्यायः 117

कृष्णेन युधिष्ठिरंप्रत्यश्वत्थगोब्राह्मणमहिमप्रशंसनपूर्वकं ब्राह्मणभ्रंशकदुष्कर्मकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम् ।
उद्वेगस्तव कस्माद्धि तन्मे ब्रूहि सुरेश्वर ॥
भगवानुवाच ।
अव्रतेनाप्यभक्तेन स्पृष्टां शूद्रेण चार्चनाम् ।
तां वर्जयामि राजेन्द्र श्वपाकविहितामिव ॥
नन्वहं शङ्करश्चापि गावो विप्रास्तथैव च ।
अश्वत्थोऽमररूपं हि त्रयमेतद्युधिष्ठिर ॥
एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित् ।
अवमानितमेतत्तु दहत्यासप्तमं कुलम् ॥
अश्वत्थो ब्राह्मणा गावो मन्मयास्तारयन्ति हि ।
तस्मादेतत्प्रयत्नेन त्रयं पूजय पाण्डव ॥
युधिष्ठिर उवाच ।
ब्राह्मणेनैव देहेन कथं शूद्रत्वमाप्नुयात् ।
ब्रह्म वा नश्यति कथं वक्तुं देव त्वमर्हसि ॥
भगवानुवाच ।
कूपस्नानं तु यो विप्रः कुर्याद्द्वादशवार्षिकम् ।
स तेनैव शरीरेण शूद्रत्वं यात्यसंशयम् ॥
यस्तु राजाश्रयेणैव जीवेद्द्वादशवार्षिकम् ।
स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगोपि सन् ॥
पत्तने नगरे वाऽपि यो द्वादशसमा वसेत् ।
स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा ॥
उत्पादयति यः पुत्रं शूद्रायां काममोहितः ।
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥
यः सोमलतिकां विप्रः केवलं भक्षयेद्वृथा ।
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥
मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप ।
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥
विप्रत्वं दुर्लभं प्राप्य दुर्मर्गैरेवमादिभिः ।
विनाशयन्ति ये तत्तु ताञ्शोचामि युधिष्ठिर ॥
तस्मात्सर्वप्रत्नेन मत्प्रियो यो युधिष्ठिर ।
जातिभ्रंशकरं कर्म न कुर्यादीदृशं द्विजः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥

श्रीः