अध्यायः 008

अश्वमेधपर्व ॥ 1 ॥

संवर्तेन मरुत्तंप्रति हिमवत्संनिहिते मुञ्जवतिगिरौ महादेवस्य निवासकथनपूर्वकं स्वोक्तनामशतकेन स्तुत्या तत्प्रसादनेन यागाय तन्नत्यबहुसुवर्णहरणचोदना ॥ 1 ॥ संवर्तेनि तदाहरणेन शिल्पिभिर्यागोपयोगिभाण्डनिर्मापणम् ॥ 2 ॥ इन्द्रेण तच्छ्रवणनिर्विण्णस्य बृहस्पतेः समीपं प्रत्यागमनम् ॥ 3 ॥

संवर्त उवाच ।

गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः ।
तप्यते यत्र भगवांस्तपो नित्यमुपापतिः ॥
वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च ।
गुहासु शैलराजस्य यथाकामं यथासुखम् ॥
उमासहायो भगवान्यत्र नित्यं महेश्वरः ।
आस्ते शूली महातेजा नानाभूतगणावृतः ॥
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा ।
यमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥
भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ ।
गन्धऱ्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ॥
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः ।
उपासन्ते महात्मानं बहुरूपमुपापतिम् ॥
रमते भगवांस्तत्र कुबेरानुचरैः सह ।
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ॥
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः । न रूपं शक्यते तस्य संस्थानं वा कदाचन ।
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ॥
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः ।
न जारा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ॥
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतांवर ।
धातवो जातरूपस्य रश्मयः सवितुर्यथा ॥
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः ।
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ॥
`तत्र गत्वा समन्वास्य महायोगेश्वरं शिवम् । कुरु प्रणामं राजर्षे भक्त्या परमया यतुः ॥'
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे । `एभिस्तं नामभिर्देवं सर्वविद्याधरं स्तुहि ॥'
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ।
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ॥
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ।
याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च ॥
क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च ।
हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च ॥
भास्वराय सुतीर्थाय देवदेवाय रंहसे ।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥
गिरिशाय प्राशान्ताय यतये चीरवाससे ।
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च ॥
मृगव्याधाय महते धन्विनेऽथ भवाय च ।
वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे ॥
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ।
लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये ॥
पशूनां पतये चैव भूतानां पतये नमः ।
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥
`अभिवक्त्राय पतये सर्वदेवमयाय च ।' स्रुवहस्ताय पतये धन्विने भार्गवाय च ।
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च ।
महात्मने चानङ्गाय सर्वाय पतये विशाम् ॥
`तथा रुद्राय पतये पृथवे कृत्तिवाससे ।' विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे ।
वसुरेतःसुवपुषे पृथवे कृत्तिवाससे ॥
कपालमालिने चैव सुवर्णमुकुटाय च ।
महादेवाय कृष्णाय त्र्यम्बकायानघाय च ॥
क्रोधनायानृशंसाय मृदवे बाहुशालिने ।
दण्डिने तप्ततपसे तथैवाक्रूरकर्मणे ॥
सहस्रशिरसे चैव सहस्रचरणाय च ।
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥
पिनाकिनं महादेवं महाभोगिनमव्ययम् ।
त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम् ॥
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ।
प्रभवं सर्वभूतानां दातारं धरणीधरम् ॥
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम् ।
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥
विरूपाक्षं दशभुजं विष्यन्दं गोवृषध्वजम् ।
उग्रं स्थाणुं शिवं रौद्रं शर्वं गौरीशमीश्वरम् ॥
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं वरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुपापतिम् ॥
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् ।
शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥
`विरोचमानं वपुषा दिव्याभरणभूषितम् ।
अनाद्यन्तमजं शंभुं सर्वव्यापिनमीश्वरम् ॥
निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिमोजसाम् ।
प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम् ॥
सम्मान्यं निश्चलं नित्यमकारुण्यमलेपनम् ।
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः ॥
यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः ।
योगीशं तत्वमार्गस्थाः कैवल्यं पदमक्षरम् ॥
यं विदुः सङ्गिनं मुक्ताः सामान्यं समदर्शिनः ।
तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम् ॥
असृजद्यस्तु भूतादीन्सप्त लोकान्सनातनान् ।
स्थितः सत्योपरि स्थाणुस्तं प्रपद्ये सनातनम् ॥
भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम् ।
अदूरस्थममुं देवं प्रकृतेः परतः स्थितम् ॥
नमामि सर्वलोकस्थं व्रजामि शरणं शिवम् ।' एवं कृत्वा नमस्तस्मै महादेवाय रंहसे ।
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ॥
`लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः ।
किं पुनः स्वर्णिभाण्डानि तस्मात्त्वं गच्छ मा चिरं ॥
महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिः सह ।' सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥
व्यास उवाच ।
इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः ।
`गङ्गाधरं नमस्कृत्य लब्धवान्धनमुत्तमम् ॥
कुबेर इव तत्प्राप्य महादेवप्रसादतः ।' ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ॥
सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः । `शालाश्च सर्वसम्भारांस्तत्र संवर्तशासनात् ॥'
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः ।
समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम् ॥
सन्तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् ।
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ॥
तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् ।
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

श्रीः