अध्यायः 011

अश्वमेधपर्व ॥ 1 ॥

कृष्णेन युधिष्ठिरंप्रति इन्द्रवृत्रासुरयुद्धप्रकारकथनम् ॥ 1 ॥

वैशम्पायन उवाच ।

इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा ।
वासुदेवो महातेजास्ततो वचनमाददे ॥
तं नृपं दीनमनसं निहतज्ञातिबान्धवम् ।
उपप्लुतमिवादित्यं सधूममिव पावकम् ॥
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः ।
आश्वासनन्धर्मसुतं प्रवक्तुमुपचक्रमे ॥
वासुदेव उवाच ।
सर्वं जिह्मं मृत्युपदमजिह्मं ब्रह्मणः पदम् ।
एतावान्ज्ञानविषयः किं प्रलापः करिष्यति ॥
नैव तेऽनुष्ठितं कर्म नैव ते शत्रवो जिताः ।
कथं शत्रुं शरीरस्तमात्मनो नावबुध्यसे ॥
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् ।
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ॥
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप । दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते ।
धराहरणदुर्गन्धो विषयः समपद्यत ॥
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते ।
वृत्रस्य सततः क्रुद्धो घोरं वज्रमवासृजत् ॥
स वध्यमानो वज्रेण सुभृशं भूरितेजसा ।
विवेश सहसा तोयं जग्राह विषयं ततः ॥
अप्सु वृत्रगृहीतासु रसे च विषये हृते ।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ॥
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा ।
विवेश सहसा ज्योतिर्जग्राह विषयं ततः ॥
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते ।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ॥
स वद्यमानो वज्रेण तस्मिन्नमिततेजसा ।
विवेश सहसा वायुं जग्राह विषयं ततः ॥
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते ।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ॥
स वध्यगानो वज्रेण तस्मिन्नमिततेजसा ।
आकाशमभिदुद्राव जग्राह विषयं ततः ॥
आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते ।
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा ।
विवेश सहसा शक्रं जग्राह विषयं ततः ॥
तस्य वृत्रगृहीतस्य मोहः समभवन्महान् ।
रथन्तरेण तं साम्ना वसिष्ठः प्रत्यबोधयत् ॥
ततो वृत्रं शरीरस्थं जघान भरतर्षभ ।
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ॥
इदं धर्म्यं रहस्यं वै शक्रेणोक्तं महर्षिषु ।
ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि एकादशोऽध्यायः ॥ 11 ॥

7-11-2 उपप्लुतं राहुग्रस्तम् ॥ 7-11-4 जिह्मं कामादि । मृत्युपदं संसारप्रापकम् । अजिह्मं शमादि । ब्रह्मणः पदं मोक्षस्य प्रापकम् । ज्ञानविषयो हेयोपादेयतया ज्ञातव्योर्थः । आर्जवं ब्रह्मणः पदमिति झ.ध.पाठः ॥ 7-11-7 धराहरणनिस्सार इति क.थ.पाठः ॥

श्रीः