अध्यायः 013

अश्वमेधपर्व ॥ 1 ॥

कामस्य शक्तिकथनेन दुर्जयत्वकथनपूर्वकं तज्जयोपायकथनम् ॥ 1 ॥

वासुदेव उवाच ।

न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्बवति वा न वा ॥
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः ।
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव ॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति द्व्यक्षरो मृत्युर्नममेति च शाश्वतम् ॥
ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ ।
अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥
अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत ।
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥
लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् ।
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥
अथवा वसतः पार्थ वने वन्येन जीवतः ।
ममता यस्य वित्तेषु मृत्योरांस्ये स वर्तते ॥
ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत ।
यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥
कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः ।
सर्वे कामा मनसोऽङ्ग प्रभूता यान्पण्डितः संहरते विचिन्त्य । भूयोभूयो जन्मनोऽभ्यासयोगा- द्योगी योगं सारमार्गं विचिन्त्य ॥
दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि ।
व्रतं यज्ञान्नियमान्ध्यानयोगा- न्कामेन यो नारभते विदित्वा । यद्यच्चायं कामयते स धमो नयो धर्मो नियमस्तस्य मूलम् ॥
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः ।
शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर ॥
काम उवाच ।
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ॥
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ।
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः ।
जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः ।
स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम् ॥
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः ।
भावो भवामि तस्याहं स च मां नावबुध्यते ॥
यो मां प्रयतते हन्तुं तपसा संशितव्रतः ।
ततस्पपसि तस्यथ पुनः प्रादुर्भवाम्यहम् ॥
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः । तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ।
अवध्यः सर्वभूतानामहमेकः सनातनः ॥
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः ।
धर्मे कुरु महाराज तत्र ते स भविष्यति ॥
मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः ।
न शक्यास्ते पुनर्द्रष्ट्रं येऽहतास्मिन्रणाजिरे ॥
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः ।
कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥

7-13-1 न बाह्यस्य राज्यादेरर्थस्य त्यागात्त्यग्गी भवति किन्तु शरीरं कामादिकं त्यक्त्वैव सिद्धिर्मोक्षः नवेति शुष्कवैराग्यवतो विवेकशून्यस्य सिद्ध्यभावं सूचयति । उत्सृज्य सिद्धिर्भवति भारतेतिक.ध.पाठः ॥ 7-13-2 गृद्ध्य सक्तस्य यो धर्मः सः अधर्मएव यत्सुखं तद्दुःखमेव ॥ 7-13-3 मम त्वं संसारहेतुः तदभावो ब्रह्मप्राप्तिहेतुरित्यर्थः ॥

श्रीः