अध्यायः 014

अश्वमेधपर्व ॥ 1 ॥

व्यासनारदकृष्णादिभिर्बन्धुनिधनपरिशोचिनो युधिष्ठिरस्य समाश्वासनेन तत्रान्तर्धानम् ॥ 1 ॥ युधिष्ठिरेण भीष्मिदीनामौर्ध्वदेहिकदानेन हास्तिननगरप्रवेशः ॥ 2 ॥

वैशम्पायन उवाच ।

एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः ।
समाश्वस्त राजर्षिर्हितबन्धुर्युधिष्ठिरः ॥
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् ।
द्वैपायनेन कृष्णेनि देवस्थानेन चाभिभूः ॥
नारदेनाथ भीमेन नकुलेन च पार्थिव ।
कृष्णया सहदेवेन विजयेन च धीमता ॥
अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः ।
व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम् ॥
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः । कृत्वाऽथ प्रेतकार्याणि सर्वेषां कुरुनन्दनः ।
अन्वशासच्च धर्मात्मा पृथिवीं सागराम्बराम् ॥
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् ।
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ॥
आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः ।
न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते ॥
अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः ।
पुरस्कृत्याद्य भवतः समानेष्यामहे मखम् ॥
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह ।
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ॥
तथा भगवता चित्रं कल्याणं बहु भाषितम् ।
देवर्षिणा नारदेन देवस्थानेन चैव ह ॥
नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् ।
लभते व्यसनं प्राप्य सुहृदः साधुसम्मतान् ॥
वैशम्पायन उवाच ।
एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः ।
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ॥
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ।
ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः ॥
एवं नातिमहान्कालः स तेषां संन्यवर्तत । कुर्वतां शौचकार्याणि भीष्मस्य निधने तदा ।
महादानानि विप्रेभ्यो ददतामौर्ध्वदेहिकम् ॥
भीष्मकर्णपुरोगाणां कुरूणां कुरुसत्तम ।
सहितो धृतराष्ट्रेण स ददावौर्ध्वदेहिकम् ॥
ततो दत्त्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः ।
धृताराष्ट्रं पुरुस्कृत्य विवेश गजसाह्वयम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥

श्रीः