अध्यायः 016
अश्वमेधपर्व ॥ 1 ॥
वैशंपायनेन कुरुविजयानन्तरं हास्तिनपुरे कृष्णार्जुनविहारप्रकारवर्णनम् ॥ 1 ॥ कृष्णेनार्जुनंप्रति युधिष्ठिरे स्वस्य निजनगरजिगमिषानिवेदनचोदना ॥ 2 ॥
जनमेजय उवाच ।
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम ।
राष्ट्रे ते चत्रतुर्वीरौ वासुदेवधनंजयौ ॥
वैशम्पायन उवाच ।
विजिते पाण्डवै राजन्प्रशान्ते च विशाम्पतौ ।
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ ॥
विजह्राते मुदा युक्तौ दिवि देवश्वराविव ।
तौ वनेषु विचित्रेषु पर्वतेषु ससानुषुः ॥
तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च ।
चंक्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ ।
प्रविश्य तां सभां रम्यां विजह्राते च भारत ॥
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव ।
कथायोगे कथायोगे कथयामासतुः सदा ॥
ऋषीणां देवतानां च वंशांस्तावाहतुः सदा ।
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः ।
निश्चयज्ञः स पार्थाय कथयामास केशवः ॥
पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः ।
कथाभिः शमयामास पार्तं शौरिर्जनार्दनः ॥
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः ।
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ॥
ततः कथान्ते गोविन्दो गुडाखेशमुवाच ह ।
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥
विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप ।
त्वद्बाहुबलामाश्रित्य राज्ञा धर्मसुतेन ह ॥
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः ।
भीमसेनानुभावेन यमयोश्च नरोत्तम ॥
धर्मेणि राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् ।
धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः ॥
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः ।
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः ।
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव ।
किमु यत्र जनोऽयं वै पृथा चामित्रकर्मन ॥
यत्र धर्मसुतो राजा यत्र यत्र भीमो महाबलः ।
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥
तथैव स्वर्गलोकेषु सभोद्देशेषु कौरव ।
रमणीयेषु पुष्णेषु सहितस्य त्वयाऽनध ॥
कालो महांस्त्वतीतो मे शूरसूनुमपश्यतः ।
बलदेवं च कौरव्यं तथाऽन्यान्वृष्णिपुङ्गवान् ॥
सोहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति ।
रोचतां गमनं तुभ्यं ममापि पुरुषर्षभ ॥
उक्तो बहुविधं राजा तत्रतत्र युधिष्ठिरः ।
सह भीष्मेण यद्युक्तमस्माभिः शोकर्शितः ॥
शिष्टो युधिष्टिरोऽस्माभिः शास्ता सन्नपि पाण्डवः ।
तेन तत्तु वचः सम्यग्गृहीतं सुमहात्मना ॥
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि ।
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ॥
तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन ।
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ॥
न हि तस्याप्रियं कुर्यां प्राणत्योगेऽप्युपस्थिते ।
कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति ॥
सर्वं त्विदमहं पार्त त्वत्प्रीतिहितकाम्यया ।
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन ॥
प्रयोजनं च निर्वृत्तमिह वासेन मेऽर्जुन ।
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ॥
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः ।
स्थिता समुद्रवसना सशैलवनकानना ॥
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ।
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम् ॥
उपास्यमानो मुनिभिः सिद्धैश्चापि महात्मभिः ।
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥
तं मया सह गत्वाऽद्य राजानं कुरुवर्धनम् ।
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥
इदं शरीरं वसु यच्च मे गृहे
निवेदितं पार्थ सदा युधिष्ठिरे ।
प्रियश्च मान्यश्च हि मे युधिष्ठिरः
सदा कुरूणामधिपो महामतिः ॥
प्रयोजनं चापि निवासकारणे
न विद्यते मे त्वदृते नृपात्मज ।
स्थिता हि पृथ्वी तव पार्थ शासने
गुरोः सुवृत्तस्य युधिष्ठिरस्य च ॥
इतीदमुक्तः स तदा महात्मना
जनार्दनेनामितविक्रमोऽर्जुनः ।
तथेति दुःखादिव वाक्यमैरय-
ज्जनार्दनं सम्प्रतिपूज्य पार्थिव ॥ ॥
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि षोडशोऽध्यायः ॥ 16 ॥
7-16-4 शैलेषु गह्वरारण्ये पल्वलेष्विति क.थ.पाठः ॥
श्रीः