अध्यायः 017

अथानुगीतापर्व ॥ 2 ॥

अर्जुनेन कृष्णंप्रति पूर्वोपदिष्टगीतार्थस्य विस्मरणोक्त्या पुनस्तदुपदेशप्रार्थना ॥ 1 ॥ कृष्णेनार्जुनंप्रति स्वस्मै ब्राह्मणोक्तसिद्धकाश्यपसंवादानुवादः ॥ 2 ॥

जनमेजय उवाच ।

सभायां वसतोस्तत्र निहत्यारीन्महात्मनोः ।
केशवार्जुनयोः का नु कथा समभवद्द्विज ॥
वैशम्पायन उवाच ।
कृष्णेन सहितः पार्थः स्वं राज्यं प्राप्य केवलम् ।
तस्यां सभायां दिव्यायां विजहार मुदा युतः ॥
तत्र कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप ।
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः ।
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥
विदितं मे महाबाहो सङ्ग्रामे समुपस्थिते ।
महात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम् ॥
यत्तु तद्भवता प्रोक्तं पुरा केशव सौहृदात् ।
तत्सर्वं पुरुषव्याघ्र नष्टं मे व्यग्रचेतसः ॥
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः ।
भवांस्तु द्वारकां गन्ता नचिरादिव माधव ॥
वैशम्पायन उवाच ।
एवमुक्तस्तु तं कृष्णः फाल्गुनं प्रत्यभाषत ।
परिष्वज्य महातेजा वचनं वदतांवरः ॥
वासुदेव उवाच ।
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।
धर्मं स्वरूपिणं पार्त सर्वलोकांश्च शाश्वतान् ॥
अबुद्ध्या यन्न गृह्णीतास्तन्मे सुमहदप्रियम् ।
न च साऽद्य पुनर्भूयः स्मृतिर्मे सम्भविष्यति ॥
नूनमश्रद्दधानोऽसि दुर्मेधा ह्यसि पाण्डव ।
न च शक्यं पुनर्वक्तुमशेषेण धनंजय ॥
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया ।
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि ।
शृणु धर्मभृतांश्रेष्ठ गदतः सर्वमेव मे ॥
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम ।
ब्रह्मलोकाच्च दुर्धर्षः सोस्माभिः पूजितोऽभवत् ॥
अस्माभिः परिपृष्ठश्च यदाह भरतर्षभ ।
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥
ब्राह्मण उवाच ।
मोक्षधर्मं समाश्रित्य कृष्ण यन्माऽनुपृच्छसि ।
भूतानामनुकम्पार्थं मन्मोहच्छेदनं विभो ॥
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन ।
शृणुष्वावहितो भूत्वा गदतो मम माधव ॥
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः ।
आससाद द्विजं कंचिद्धर्माणामागतागमम् ॥
गतागमं सुबहुशो ज्ञानविज्ञानपारगम् ।
लोकतत्त्वार्थकुशलं ज्ञातरं सुखदुःखयोः ॥
जातिस्मरणतत्त्वज्ञं कोविदं पापपुण्ययोः ।
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् ।
दीप्यमानं श्रिया ब्राह्मया क्रममाणं च सर्वशः ॥
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः ।
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥
सम्भाषमाणमेकान्ते समासीनं च तैः सह ।
यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥
तं समासाद्य मेधावी स तदा द्विजसत्तमः । चरणौ धर्मकामो वै स तस्य सुसमाहितः ।
प्रतिपदे यथान्यायं भक्त्या परमया युतः ॥
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् ।
परिचारेण महता गुरुं तं पर्यतोषयत् ॥
उपपन्नं च तत्सर्वं श्रुतचारित्रसंयुतम् ।
भौमेनातोषयच्चैनं गुरुवृत्तिं समास्थितः ॥
तस्मै तुष्टः स शिष्याय यत्प्रसन्नोऽब्रवीद्गुरुः ।
सिद्धिं परामभिप्रेक्ष्य शृणु मत्तो जनार्दन ॥
सिद्ध उवाच ।
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः ।
गच्छन्तीह गतिं मर्त्या देवलोके च वा स्थितिम् ॥
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः ।
स्थानाच्च महतो भ्रंशो दुःखलब्दात्पुनः पुनः ॥
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् ।
काममन्युपरीतेन तृष्णया मोहितेन च ॥
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः ।
आहारा विविधा भुक्ताःपीता नानाविधाःस्तनाः ॥
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः ।
सुखानि च विचित्राणि दुःखानि च मयाऽनघ ॥
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह ।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा ।
शारीरा मानसा वाऽपि वेदना भृशदारुणाः ॥
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः ।
पतनं निरये चैव यातनाश्च यमक्षये ॥
जरारोगाश्च सततं व्यसनानि च भूरिशः ।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ॥
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च ।
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ॥
लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः । ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ।
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ॥
आसिद्धेराप्रजासर्गादात्मनोपि गतीः शुभाः ।
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ॥
इतः परं गमिष्यामि ततः परतरं पुनः ।
ब्रह्मणः पदमव्यक्तं मा तेऽभूतत्र संशयः ॥
नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप ।
प्रीतोस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः ।
अभिजाने च तदहं यदर्थं मामुपागतः ॥
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ।
भृशं प्रीतोस्मि भवतश्चारित्रेण विचक्षण ॥
परिपृच्छ यावद्भवतो भाषे यद्यत्तवेप्सितम् ॥
बहुमन्ये च ते बुद्धिं भृशं सम्पूजयामि च ।
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

7-17-19 आगतागमं प्राप्तशास्त्ररहस्यमूहापोहकुशलमित्यर्थः ॥ 7-17-43 बहुमन्ये भृशं पूजये । अहमन्तर्धानगतोऽपि यतस्त्वया ज्ञातः ॥

श्रीः