अध्यायः 019

अश्वमेधपर्व ॥ 1 ॥

ब्राह्मणेन कृष्णंप्रति जीवस्य गर्भप्रवेशादिप्रतिपादककाश्यपसिद्धसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच ।

शुभानामशुभानां च नेह नाशोस्ति कर्मणाम् ।
प्राप्यप्राप्यानुपच्यन्ते क्षेत्रेक्षेत्रे तथातथा ॥
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु ।
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥
पापं चापि तथैव स्यात्पापेन मनसा कृतम् ।
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥
यथा कर्मसमाविष्टः काममन्युसमावृतः ।
नरो गर्भं प्रविशति तत्रापि शृणु चोत्तरम् ॥
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाऽशुभम् ॥
सौक्ष्म्यादव्यक्तयावाच्च न च क्वचन सज्जति ।
सम्प्राप्य ब्राह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ॥
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥
स जीवः सर्वभूतानां गर्भमाविश्य भागशः । दधाति चेतना सद्यः प्राणस्थानेष्ववस्थितः ।
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥
यथा लोहस्य विष्यन्दो निषिक्तो बिम्बविग्रहम् ।
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ॥
लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत् । तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ।
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् ।
एवमेव शरीराणि प्रकाशयति चेतनः ॥
यद्यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम् ।
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥
ततस्तु क्षीयते चैव पुनश्चान्यत्प्रचीयते ।
यावत्तु मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥
तत्ते धर्मं प्रवक्ष्यामि सुखी भवति येन वै ।
आवर्तमानो जातीषु यथाऽन्योन्यासु सत्तम ॥
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् ।
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥
संयमश्चानृशंस्य च परस्वादानवर्जनम् ।
व्यलीकानामकरणं भूताना मनसा भुवि ॥
मातापित्रोश्च शुश्रूषा देवतातितिपूजनम् ।
गुरुपूजा घृणा शौचं नित्यमिन्द्रयसंयमः ॥
प्रवर्तनं शुभानां च तत्सतां व्रतमुच्यते ।
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥
`सद्भिराचरितो धर्मः सदाचारे प्रतिष्ठितः ।
उभयार्थो भवत्येव स्वर्गार्थो मोक्षतस्तथा ॥' ॥
एवं सत्सु सदा पश्येत्तत्रछाप्येषा ध्रुवा स्थितिः ।
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥
तेषु तत्कर्म निक्षिप्तं यः स धर्मः सनातनः ।
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥
अतो नियम्यते लोकः प्रच्यवन्धर्मवर्त्मसु ।
यश्च योगी च मुक्तश्च स ऐतेभ्यो विशिष्यते ॥
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा ।
संसारतारणं ह्यस्य कालेन महता भवेत् ॥
एवं पूर्वकृतं कर्म सर्वो जन्तुः प्रपद्यते ।
सर्वं तत्कारणं येन निकृतोऽप्यमिहागतः ॥
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् ।
इत्येवं संशये लोके तच्च वक्ष्याम्यतः परम् ॥
शरीरमात्मनः कृत्वा सर्वलोकपितामहः ।
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥
ततः प्रधानमसृजच्चेतनां तु शरीरिणाम् ।
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥
इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् ।
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥
असृजत्सर्वभूतानि पूर्वदृष्टः प्रजापतिः ।
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥
तस्य कालपरीमाणमकरोत्स पितामहः ।
भूतेषु परिवृत्तिं च पनरावृत्तिमेव च ॥
यथा तु कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि ।
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥
सुखदुःखे यथा सम्यगनित्ये यः प्रपश्यति ।
कायं चामेध्यसंस्थानं विनाशं कर्मसंहितम् ॥
यच्च किञ्चित्सुखं तच्च दुःखं दृष्टमिति स्मरन् ।
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥
जनीमरणरोगैश्च समाविष्टः प्रधानवित् ।
चेतनाव्तसु चैतन्यं समं भूतेषु पश्यति ॥
निर्विद्यते ततः कश्चिन्मार्गमाणः परं पदम् ।
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥
शाश्वतस्याव्ययस्याथ् यदस्य ज्ञानमुत्तमम् ।
प्रोच्यमानं मया विप्र निबोधदमशेषतः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोविंशोऽध्यायः ॥ 19 ॥

7-19-2 फली वृक्षः । 7-19-8 तथापि तेजसा सम्यक्प्राणस्थाने इति थ. पाठः ॥ 7-19-9 यथा स्वर्णद्रवः स्वल्पोति कृत्स्नां ताम्रप्रतिमां स्वर्णमयीमिव करोत्येवं गर्भे जीवप्रवेशनं । शरीरे सूक्ष्मस्यापि चैतन्यस्य व्याप्तिरित्याद्यस्य परिहारः ॥ 7-19-28 क्षरं जडम् ॥

श्रीः