अध्यायः 023

अश्वमेधपर्व ॥ 1 ॥

कृष्णेनार्जुनंप्रति पृथग्घ्राणादीन्द्रियगुणप्रतिपादनपूर्वकं तेषां मनसा सह विवादप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच ।

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे सप्तहोतॄणां विधानमिह यादृशम् ॥
घ्राणश्चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम् ।
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥
सूक्ष्माकाशे समं प्राप्ते न पश्यन्तीतरेतरम् ।
एतद्वै सप्तहोतृत्वं स्वभावाद्विद्धि शोभने ॥
ब्राह्मण्युवाच ।
सूक्ष्मे तु काशे सम्प्राप्ते कथं नान्योन्यदर्शिनः ।
कथं स्वभावाद्भगवन्नेतदाचक्ष्व मे प्रभो ॥
ब्राह्मण उवाच ।
गुणज्ञानेषु विज्ञानं गुणज्ञानामभिज्ञता ।
परस्परं गुणानेते नाभिजानन्ति कर्हिचित् ॥
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥
घ्राणं चक्षुस्तथा क्षोत्रं त्वङ्मनो बुद्धिरेव च ।
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ॥
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥
घ्राणं जिह्वा ततश्चक्षुः श्रोत्रं बुद्धिर्मनस्तथा ।
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च ।
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं बुद्धिरेव च ।
सङ्कल्पान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च ।
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥
मन उवाच ।
नाघ्राति मामृते घ्राणं रसं जिह्वा न वेत्ति च ।
रूपं चक्षुर्न गृह्णाति त्वक् स्पर्सं नावबुध्यते ॥
न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन ।
प्रवरं सर्वबूतानामहमस्मि सनातनम् ॥
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः ।
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः ।
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥
इन्द्रियाण्यूचुः ।
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् ।
ऋतेऽस्मानस्मदर्थांस्त्वं भोगान्भुङ्क्ते भवान्यदि ॥
यद्यस्मासु प्रलीनेषु तप्रणं प्राणधारणम् ।
भोगान्भुङ्क्ते भवान्सत्यं यथैतन्मन्यते तथा ॥
अथवाऽस्मासु लीनेषु तिष्ठत्सु विषयेषु च ।
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा ।
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥
श्रोत्रेण गन्धानादत्स्व स्पर्शानादत्स्व जिह्वया ।
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् ।
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हति ॥
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति ।
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥
विषयानेवमस्माभिर्दर्शितानभिमन्यसे ।
अनुभूतानतीतांश्च स्वप्ने जागरणे तथा ॥
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् ।
अस्मदर्थे कृते दृश्यते प्राणधारणम् ॥
बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च ।
बुभुक्षया पीड्यमानो विषयानेन धावति ॥
अगारमद्वारमिव प्रविश्य सङ्कल्पभोगान्विषयानविन्दन् ।
प्राणक्षये शान्तिमुपैति नित्यं दारुक्षयेऽग्निर्ज्वलितो यथैव ॥
कामं तु नष्टेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः ।
अस्मान्विना नास्ति तपोपलब्धि- स्तामप्यृते त्वां न भजेत्प्रहर्षः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥

श्रीः