अध्यायः 024

कृष्णेनार्जुनंप्रति प्राणापानादीनां स्वस्वश्रैष्ठ्यप्रकारकविवादादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच ।

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ॥
प्राणापानवुदानश्च समानो व्यान एव च ।
पञ्चहोतॄंस्तथैतान्वै परं भावं विदुर्बुधाः ॥
ब्राह्मण्युवाच ।
स्वबावात्सप्तहोतार इति मे पूर्विका मतिः ।
यथा वै पञ्च होतारः परो भावस्तदुच्यताम् ॥
ब्राह्मण उवाच ।
प्राणेन सम्भृतो वायुरपानो जायते ततः ।
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते ।
उदाने सम्भृतो वायुः समानो नाम जायते ॥
तेऽपृच्छन्त पुरो गत्वा पूर्वजातं पितामहम् ।
यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥
ब्रह्मोवाच ।
यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
यस्मिन्प्रवृत्ते च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः ॥
प्राण उवाच ।
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥
ब्राह्मण उवाच ।
प्रामः प्रालीयत ततः पुनश्च प्रचचार ह ।
समानश्चाप्युदानश्च वचो ब्रूतां पुनः शुभे ॥
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् । न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव ।
प्रचचार पुनः प्राणस्ततोऽपानोऽभ्यभाषत ॥
उपान उवाच ।
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥
ब्राह्मण उवाच ।
व्यानश्च तमुदानश्चि भाषमाणमथोचतुः ।
अपान न त्वं श्रेष्ठोसि प्राणो हि वशगस्तव ॥
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥
ब्राह्मण उवाच ।
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह ।
प्राणापानावुदानस्च समानश्च तमब्रुवन् ॥
न त्वं श्रेष्ठोसि नो व्यान समानस्तु वशे तव । प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥
`ततः समानः प्रालिल्ये पुनश्च प्रचचार ह । प्राणापानावुदानस्च व्यानश्चैव तमब्रवीत् ।
न त्वं समान श्रेष्ठोसि व्यान एव वशे तव ॥'
समानः प्रचचाराथ उदानस्तमुवाच ह ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥
ततः प्रालीयतोदानः पुनश्च प्रचचार ह । प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् ।
उदानि न त्वं श्रेष्ठोसि व्यानि एव वशे तव ॥
ब्राह्मण उवाच ।
ततस्तानब्रवीत्सर्वान्स्मयमानः प्रजापतिः ।
सर्वे श्रेष्ठा न च श्रेष्ठाः सर्वे चान्योन्यकाङ्क्षिणः ॥
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः ।
इति तानब्रवीत्सर्वान्समवेतान्प्रजापतिः ॥
एकः स्थिरश्चराश्चान्ये विशेषात्पञ्च वायवः ।
एक एव च सर्वात्मा बहुधाऽप्युपचीयते ॥
परस्परस्य सुहृदो भावयन्तः परस्परम् ।
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुर्विशोऽध्यायः ॥ 24 ॥

7-24-24 बहुधाप्युपलीयते इति क.थ.पाठः ॥

श्रीः