अध्यायः 025
कृष्णेनार्जुनंप्रति ब्राह्ममेन ब्राह्मणींप्रत्युक्तसृष्ट्यादिप्रतिपादकनारददेवमतसंवादानुवादः ॥ 1 ॥
ब्राह्मण उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
						नारदस्य च संवादमृषेर्देवमतस्य च ॥
						देवमत उवाच । 
					जन्तोः संजायमानस्य किंनु पूर्वं प्रवर्तते ।
						प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥
						नारद उवाच । 
					येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् ।
						प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वमधश्च यत् ॥
						देवमत उवाच । 
					केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् ।
						प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वमधश्च यत् ॥
						नारद उवाच । 
					सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते ।
						रसात्संजायते चापि रूपादपि च जायते ॥
					`स्पर्शात्संजायते चापि गन्धादपि च जायते ।'
							शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते ।
						
						प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥
						
					शुक्रात्संजायते चापि रसादपि च जायते ।
						एतद्रूपमुदानस्य हर्षो मिथुनमन्तरा ॥
					कामात्संजायते शुक्रं शुक्रात्संजायते रजः ।
						समानव्यानजनिते सामान्ये शुक्रशोणिते ॥
					प्राणापानाविदं द्वन्द्वमवाक् चोर्ध्वं च गच्छतः ।
						व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते ॥
					अग्निर्वै देवताः सर्वा इति देवस्य शासनात् ।
						संजायते हि प्राणेषु ज्ञानं बुद्धिसमन्वितम् ॥
					तस्य धूमस्तमोरूपं रजो भस्म सुतेजसः ।
						सर्वं संजायते तस्य यत्र प्रक्षिप्यते हविः ॥
					हविः समानो व्यानश्च इति यज्ञविदो विदुः ।
						प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ॥
					एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ।
						निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणुः ॥
					अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः ।
						एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
					`उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः ।
							एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥'
						
					सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः ।
						एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
					`उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः ।
							एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥'
						
					ऊर्ध्वं समानो व्यानश्च व्यस्यते कर्म तेन तत् ।
						द्वितीयं तु समानेन पुनरेव व्यवस्यते ॥
					शान्त्यर्थं वामदेव्यं च शान्तिर्ब्रह्म सनातनम् ।
						एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ ॥
					इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चविशोऽध्यायः ॥ 25 ॥
7-25-18 पूर्वंसमानो व्यानोऽथ व्यस्यते तेन कर्मकृत् इति क.ट.पाठः ॥
श्रीः
