अध्यायः 029

अथानुगीतापर्व-2

कृष्णेनार्जुनंप्रति यागीयहिंसाया अधर्म्यत्वाभावप्रतिपादकाध्वर्युयतिसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच ।

गन्धान्न जिघ्रामि रासान्न वेद्मि रूपं न पश्यामि न च स्पृशामि ।
न चापि शब्दान्विविधाञ्शृणोमि न चापि सङ्कल्पमुपैमि कञ्चित् ॥
अर्थानिष्टान्कामयते स्वभावः सर्वान्द्वेष्यान्प्रद्विषते स्वभावः ।
कामद्वेषानुद्भवतः स्वभावा- त्प्राणापानौ जन्तुदेहान्निवेश्य ॥
तेभ्यश्चान्यांस्तेषु नित्यांश्च भावा- न्भूतात्मानं अक्षयेऽहं शरीरे ।
तस्मिंस्तिष्ठन्नास्मि सक्तः कथंचि- त्कामक्रोधाभ्यां जरया मृत्युना च ॥
अकामयानस्य च सर्वकामा-
नविद्विषाणस्य च सर्वदोषान् । न मे स्वभावेषु भवन्ति लेपा-
स्तोयस्य बिन्दोरिव पुष्करेषु ॥
नित्यस्य चैतस्य भवन्ति नित्या निरीक्ष्यमाणस्य बहून्स्वभावान् ।
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अध्वर्युयतिसंवादं तं निबोध यशस्विनि ॥
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् ।
यतिरध्वर्युमासीनो हिंसोयमिति कुत्सयन् ॥
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति ।
श्रेयसा योक्ष्यते जन्तुर्यज्ञाच्छ्रुतिरियं तथा ॥
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति ।
यदस्य वारिजं किञ्चिदपस्तत्सम्प्रवेक्ष्यति ॥
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च ।
आगमे वर्तमानस्य नमे दोषोस्ति कश्चन ॥
यतिरुवाच ।
प्राणैर्वियोगे च्छागस्य यदि श्रेयः प्रपश्यसि ।
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥
अनु त्वां मन्यते माता अनु त्वां मन्यते पिता ।
मन्त्रविज्ञानमुन्नीय परिवर्ते विशेषतः ॥
एवमेवानुमन्येरंस्तान्भवान्द्रष्टुमर्हति ।
तेषामनुमतिं श्रुत्वा शक्या कर्तुं विचारणा ॥
अध्वर्युरुवाच ।
प्राणा अप्यस्य च्छागस्य प्रापितास्ते स्वयोनिषु ।
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥
इन्धनस्य तु तुल्येन शरीरेणि विचेतसा ।
हिंसा हि यष्टुकामानामिन्धनं पशुसंज्ञितम् ॥
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् ।
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् ।
शक्यं बहुविधं वक्तुं भवता कार्यदूषणम् ॥
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते ।
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥
अध्वर्यरुवाच ।
भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान् ।
ज्योतिषां पश्यते रूपं स्पृशस्यनिलजान्गुणान् ॥
शृणोष्याकाशजाञ्शब्दान्मनसा मन्यसे मतिम् ।
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥
प्राणादाने निवृत्तोसि हिंसायां वर्तते भवान् ।
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥
यतिरुवाच ।
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः ।
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥
प्राणो जिह्वा मनः सत्त्वं सद्भावो रजसा सह ।
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः ॥
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः ।
समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ॥
अध्वर्युरुवाच ।
सद्भिरेवेह संवादः कार्यो मतिमतांवर ।
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् ।
व्रतं मन्त्रकृतं कर्तुर्नापराधोस्ति मे द्विज ॥
ब्राह्मण उवाच ।
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् ।
अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः ।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनार्थदर्शिना ॥ ॥

इति श्रीमन्महाभारते आश्वमेदिकपर्वणि अनुगीतापर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥

7-29-2 सर्वानेतान्द्वेष्टि चैव स्वभाव इति क.ट.पाठः । जन्तुदेहानिहैत्येति क.ट.पाठः ॥ 7-29-3 नास्ति शक्यः कथंचिदिति क.ट.थ.पाठः ॥ 7-29-12 अत्र त्वां मन्यतां भ्राता पिता माता सखेति च । मन्त्रयस्वैनमुन्नीय परवन्तं विशेषत इति झ.द.पाठः ॥ 7-29-19 भूमेरिति नानुपहत्य भूतानि भोगः सम्भवतीति न्यायाज्जीवतोऽपरिहार्यैव हिंसेत्यर्थः ॥ 7-29-21 किं कथं त्वं मन्यसेऽहिंसामिति शेषः ॥ 7-29-26 मतं मन्तुं क्रतुं कर्तुमिति थ.पाठः ॥

श्रीः