अध्यायः 032

अथानुगीतापर्व-2

ब्राह्मणेन स्वभार्यांप्रति कामक्रोधादिपरित्यागपूर्वकं भगवदवबोधस्य परमपुरुषार्थसाधनतावबोधकाम्बरीषगीतगाथाकथनम् ॥ 1 ॥

ब्राह्मण उवाच ।

त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः ।
हर्षः स्तंभोतिमानश्च त्रयस्ते सात्विका गुणाः ॥
शोकः क्रोधाभिसंरम्भो राजसास्ते गुणाः स्मृताः ।
स्वप्नस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः ॥
एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः ।
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः ।
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥
समुदीर्णेषु दोषेषु बाध्यमानेषु साधुषु ।
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥
स निगृह्यात्मनो दोषान्साधून्समभिपूज्य च ।
जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह ॥
भूयिष्ठं विजिता दोषा निहताः सर्वशत्रवः ।
एको दोषो वरिष्ठश्च वध्यः स न हतो मया ॥
यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति ।
तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥
अकार्यमपि येनेह प्रयुक्तः सेवते नरः ।
तं लोभमसिभिस्तीक्ष्णैर्निकृत्य सुखमेधते ॥
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते । स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ।
तदवाप्तौ तु लभते भूयिष्ठं तामसान्गुणान् ॥
स तैर्गुणैः संहतदेहबन्धनः । पुनःपनर्जायति कर्म चेहते ।
जन्मक्षये भिन्नविकीर्मदेहो मृत्युं पुनर्गच्छति जन्मनैव ॥
तस्मादेतं सम्यगवेक्ष्य लोभं निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत् ।
एतद्राज्यं नान्यदस्तीह राज्य- मात्मैव राजा विदितो यथावत् ॥
इति राज्ञाऽम्बरीषेण गाथा गीता यशस्विना ।
आधिराज्य पुरस्कृत्य लोभमेकं निकृन्तता ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

7-32-1 गुणतः वृत्तिभेदात् ॥ 7-32-2 अभिसंरम्भो द्वेषाभिनिवेशः ॥ 7-32-3 निकृत्य च्छित्त्वा । बाणसंघैः शमादिभिः ॥ 7-32-11 पुनर्जायति चेह तत्फलम् । फलक्षये भिन्नविदीर्णदेहः पुनर्मृत्यु गच्छति चैव जन्मनीति क.थ.पाठः ॥ 7-32-12 नान्यदस्तीति विद्या यैश्चैव राजा विजितो मयैक इति क.थ.पाठः ॥

श्रीः