अध्यायः 034
अथानुगीतापर्व-2
ब्राह्मणेन ब्राह्मणींप्रति स्वमाहात्म्यप्रकाशनम् ॥ 1 ॥
ब्राह्मण उवाच ।
नाहं तथा भूरु चरामि लोके
							यथा त्वं मां तर्जयसे स्वबुद्ध्या ।
						
						विप्रोस्मिं मुक्तोस्मि वनेचरोस्मि
							गृहस्थधर्मा व्रतवांस्तथाऽस्मि ॥
						
					नाहमस्मि यता मां त्वं पश्यसे च शुभाशुभे ।
						मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् ॥
					ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह ।
						तेषां मामन्तकं विद्धि दारुणामिव पावकम् ॥
					राज्ये पृथिव्यां सर्वस्यामथवापि त्रिविष्टपे ।
						तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥
					एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः ।
						गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ॥
					लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ।
						नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ॥
					ते भावमेकमायान्ति सरितः सागरं यथा ।
							बुद्ध्याऽयं गम्यते मार्गः शरीरेणि न गम्यते ।
						
						आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥
						
					तस्मान्मे सुभगे नास्ति परलोककृतं भयम् ।
						तद्भावभावनिरता ममैवात्मानमेष्यसि ॥ ॥
					इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥
7-34-3 तेषामन्तर्गतं विद्धि इति क.ध.पाठः ॥ 7-34-7 विद्ध्यान्तवन्ति कर्माणीति क.थ.पाठः ॥ 7-34-8 तस्मात्ते सुभगे इति झ.पाठः । मद्भावभावनिरता मामेवैष्यस्यथात्मनेति क.पाठः ॥
श्रीः
