अध्यायः 035

अथानुगीतापर्व-2

कृष्णेनार्जुनंप्रति ब्राह्मणीब्राह्मणशब्दनिर्दिष्टयोः क्रमेणि बुद्धिमनस्त्वकथनम् ॥ 1 ॥

ब्राह्मण उवाच ।

नेदमल्पात्मना शक्यं वेदितुं वाऽकृतात्मना ।
बहु चाल्पं च संक्षिप्तं विस्तृतं च मतं मम ॥
उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः ।
तन्मन्ये कारणं कर्म यत एषा प्रवर्तते ॥
ब्राह्मण उवाच ।
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः ।
तपःश्रुतेभिमथिनी ज्ञानाग्निर्जायते ततः ॥
ब्राह्मणयुवाच ।
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति संज्ञितम् ।
ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तद्वद ॥
ब्राह्मण उवाच ।
अलिङ्गो निर्गुणश्चैव कारणं नास्य विग्रहे ।
उपायमेव वक्ष्यामि येन गृह्येत भावना ॥
सम्यगप्युपदिष्टस्य ह्यमृतस्येव तृप्यसे । कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गान्निपातितः ।
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते ।
पश्यतः शृण्वतो बुद्धिरात्मनैवोपजायते ॥
यावन्त इह शक्येरंस्तावतोंऽसान्प्रकल्पयेत् ।
अव्यक्तान्व्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥
सर्वानुमानयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् ।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥
श्रीभगवानुवाच ।
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंशये ।
क्षेत्रज्ञानेन परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥
अर्जुन उवाच ।
क्व नु सा ब्राह्मणि कृष्ण क्व चासौ ब्राह्मणर्षभः ।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥
श्रीभगवानुवाच ।
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् ।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चत्रिंशोऽध्यायः ॥

7-35-6 सम्यगुपायो दृष्टश्च भ्रमरैरिव लक्ष्यत इति झ.पाठः ॥

श्रीः