अध्यायः 039
अथानुगीतापर्व-2
ब्रह्मणा महर्षीन्प्रति सत्वगुणकार्यनिरूपणम् ॥ 1 ॥
ब्रह्मोवाच ।
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् ।
सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ॥
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च ।
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता ॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ॥
मुधाज्ञानं मुधावृत्तं मुधासेवा मुदाश्रमः ।
एवं यो युक्तधर्मः स्यात्सोमुत्रात्यन्तमश्नुते ॥
निर्ममो निरहङ्कारो निराशीः सर्वतः समः ।
अकामहत इत्येव सतां धर्मः सनातनः ॥
विश्रंभो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता ।
आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् ॥
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तिता ।
शान्तिकर्मविशुद्धिश्च भावशुद्धिर्विमोचनम् ॥
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः ।
निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता ॥
मुधादानं मुधायज्ञो मुधाधीतं मुधाव्रतम् ।
मुधाप्रतिग्रहश्चैव मधाध्रमो मुधातपः ॥
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्वसंश्रयाः ।
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ॥
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः ।
दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः ॥
ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा ।
विकुर्वते महात्मानो देवास्त्रिदिवगा इव ॥
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः ।
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ॥
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ।
इत्येतत्सात्विकं वृत्तं कथितं वो द्विजर्षभाः ।
एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति ॥
प्रकीर्तिताः सत्त्वगुणा विशेषतो
यथावदुक्तं गुणवृत्तमेव च ।
नरस्तु यो वेद गुणानिमान्सदा
गुणान्स भुङ्क्ते न गुणैः स युज्यते ॥ ॥
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥
7-39-7 हर्षः पुत्रजन्मादिजं सुखम् । तुष्टिरलबुद्धिः । शान्तिकर्मणि मुक्त्युपाये शुद्धिः आर्जवेन प्रवृत्तिः ॥ 7-39-8 उपेक्षा औदासीन्यम् ॥
श्रीः