अध्यायः 040

अथानुगीतापर्व-2

ब्रह्मणा महर्षीन्प्रति सत्वादिगुणत्रयनिरूपणम् ॥ 1 ॥

ब्रह्मोवाच ।

नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः ।
अविच्छिन्नानि दृश्यन्ते रजः सत्वं तमस्तथा ॥
अन्योन्यमनुरज्यन्ते ह्यन्योन्येनानुजीविनः ।
अन्योन्यापाश्रयाः सर्वे तथाऽन्योन्यानुवर्तिनः ॥
यावत्सत्वं रजस्तावद्वर्तते नात्र संशयः ।
यावत्तमश्च सत्वं च रजस्तावदिहोच्यते ॥
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः ।
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ॥
उद्रेकव्यतिरिक्तानां तेषामन्योन्यवर्तिनाम् ।
वक्ष्यते तद्यथाऽन्यूनं व्यतिरिक्तं च सर्वशः ॥
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् ।
अल्पं तत्रथ रजो ज्ञेयं सत्वमल्पतरं तथा ॥
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् ।
अल्पं तत्र तमो ज्ञेयं सत्वमल्पतरं तथा ॥
उद्रिक्तं च यदा सत्वमूर्ध्वस्रोतोगतं भवेत् ।
अल्पं तत्र तमो ज्ञेयं रजश्चाल्पतरं तथा ॥
सत्वं वैकारिकी योनिरिन्द्रियाणां प्रकाशिका ।
न हि सत्वात्परो भावः कश्चिदन्यो विधीयते ॥
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ॥
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्वमुत्तमम् ।
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ॥
दूरादपि हि दृश्यनते सहिताः सङ्घचारिणः ।
तमः सत्वं रजश्चैव पृथक्त्वेनानुशुश्रुम ॥
दृष्ट्वा त्वादित्यमुद्यन्तं कुचोराणां भयं भवेत् ।
अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः ॥
आदित्यः सत्वमुद्दिष्टः कुचोरास्तु तथा तमः ।
परितापोऽध्वगानां च रजसो गुण उच्यते ॥
प्राकाश्यं सत्वमादित्यः संतापो रजसो गुणः ।
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ॥
एवं ज्योतिष्षु सर्वेषु प्रवर्तन्ते गुणास्त्रयः ॥
पर्यायेण च वर्न्तते तत्रतत्र तथातथा ॥
स्थावरेषु तु भावेषु तिर्यग्भावगतं तमः ।
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्विकैः ॥
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते ।
मासार्दमासवर्षाणि ऋतवः सन्धयस्तथा ॥
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते ।
त्रिधा लोकास्त्रिधा देवास्त्रिधा विद्यास्त्रिधा गतिः ॥
भूतं भव्यं भविष्यं च धर्मोऽर्थः काम एव च ।
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ॥
पर्यायेण प्रवर्तन्ते तत्रतत्र तथातथा ।
यत्किञ्चिदिह लोकेऽस्मिन्सर्वमेते त्रयो गुणाः ॥
त्रयो गुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु ।
सत्वं रजस्तमश्चैव गुणसर्गः सनातनः ॥
तमोऽव्यक्तं शिवं धाम रजो योनिः सनातनः ।
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ॥
अनुद्रिक्तमनूनं वाऽप्यकम्पमचलं ध्रुवम् । सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् ।
ज्ञेयानि नामधेयानि नरैरद्यात्मचिन्तकैः ॥
अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः ।
विमुक्तदेहः प्रविभागतत्त्ववि- त्स मुच्यते सर्वगुणैर्निरामयः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

श्रीः