अध्यायः 041

अथानुगीतापर्व-2

ब्रह्मणा महर्षीन्प्रति महदहङ्कारतत्वनिरूपणम् ॥ 1 ॥

ब्रह्मोवाच ।

अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः ।
आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते ॥
महानात्मा मतिर्विष्णुर्जिष्णुः शंभुश्च वीर्यवान् । बुद्धिः प्रज्ञोपलब्धिश्च तता ख्यातिर्धृतिःस्मृतिः ।
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते ।
तं जानन्ब्राह्मणो विद्वान्प्रमोहं नाधिगच्छति ॥
सर्वतःपाणिपादं च सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वं व्याप्यवतिष्ठति ॥
महाप्रभावः पुरुषः सर्वस्य हृदि निष्ठितः ।
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥
तत्र बुद्धिमतां लोके सद्भावनिरताश्च ये ।
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ॥
ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः ।
प्रसन्नमनसो धीरा निर्ममा निरहंक्रियाः ॥
विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत ।
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् ॥
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥
तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु ।
ते शब्दस्पर्शरूपेषु रसगन्धक्रियासु च ॥
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ।
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ॥
स धीरः सर्वलोकेषु न मोहमधिगच्छति ।
विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः ॥
एवं हि यो वेद गुहाशयं प्रभुं परं पुराणं पुरुषं विश्वरूपम् ।
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥
य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते ।
अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते ॥
अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः ।
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ॥
देवानां प्रभवो देवो मनसश्च त्रिलोककृत् ।
अहमित्येव तत्सर्वमभिमानः स उच्यते ॥
अध्यात्मज्ञानतृप्तानां मुनीनां भावितात्मनाम् ।
स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ॥
अहङ्कारेणाहरतो गुणानिमा- न्भूतादिरेवं सृजते स भूतकृत् ।
वैकारिकः सर्वमिदं विचेष्टते स्वतेजसा रञ्जयते जगत्तथा ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥

श्रीः