अध्यायः 043

अथानुगीतापर्व-2

ब्रह्मणा महर्षीन्प्रति मनुष्येषु क्षत्रियाणां रजोगुणकार्यबलप्रधानतया तेषां सत्वप्रधानब्राह्मणरक्षणस्य कर्तव्यत्वकथनप्रसङ्गेन तत्तज्जातिश्रेष्ठवस्तुकथनम् ॥ 1 ॥

ब्रह्मोवाच ।

मनुष्याणां तु राज्यः क्षत्रियो मध्यमो गुणः ।
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥
अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम् ।
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा ।
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ॥
एते द्रुमाणां राजानो गणानां मरुतस्तथा ।
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् ॥
श्वेतो नीलश्च भासश्च राष्ट्रवांश्चैव पर्वतः ।
भृशस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा ॥
एते पर्वतराजानो गणानां मरुतस्तथा ।
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः ॥
यमः पितॄणामधिपः सरितामथ सागरः ।
अंभसां वरुणो राजा मरुतामिन्द्र उच्यते ॥
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ।
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः ॥
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः । त्वष्टाऽधिनां पतिः सोमो विष्णुर्बलवतां वरः ।
दक्षिणानां तथा यज्ञो वेदानामृच एव च ।
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् ॥
कुबेरः सर्वरत्नानां देवतानां पुरंदरः ।
एष भूताधिपः सर्गः प्रजानां च प्रजापतिः ॥
सर्वेषामेव भूतानामहं ब्रह्ममयो महान् ।
भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते ॥
राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान् ।
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥
नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम् ।
देवदानवनागानां सर्वेषामीश्वरो हि सः ॥
भगदेवानुयातानां सर्वासां वामलोचना ।
माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा ॥
उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम् ।
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥
धर्मिकामाश्च राजानो ब्राह्मणा धर्मसेतवः ।
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ॥
राज्ञां हि विषये येषामवसीदन्ति साधवः ।
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ॥
राज्ञां हि विषये येषां साधवः परिरक्षिताः ।
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्दमेव च ॥
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ।
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् ॥
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा ।
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः ॥
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः ।
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः ॥
धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा ।
स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा ॥
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् ।
मनसा चिन्तितानर्थान्बुद्ध्या चेह व्यवस्यति ॥
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः ।
लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम् ॥
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥
संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् ।
अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः ॥
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया ।
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ॥
पार्तिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते ।
प्राणस्यश्च तथा वायुर्गन्धज्ञाने विधीयते ॥
अपां धातू रसो नित्यं जिह्वया स तु गृह्यते ।
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥
तेजसस्तु गुणो रूपं चक्षुषा तच्च गृह्यते ।
चक्षुःस्थश्च ततादित्यो रूपज्ञाने विधीयते ॥
वायव्यस्तु सदा स्पर्शस्त्वचा प्रज्ञायते च सः ।
त्वक्स्थश्चैव सदा वायुः स्पर्सने स विधीयते ॥
आकाशस्य गुणो घोषः श्रोत्रेण च स गृह्यते ।
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥
मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते ।
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते ॥
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा ।
निश्चित्य ग्रहणाद्व्यक्तमव्यक्तं नात्र संशयः ॥
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ।
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् ।
सदा पश्याम्यहं लीनं विजानामि शृणोमि च ॥
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते ।
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ॥
आदिमद्यावसानं तत्सृज्यमानमचेतनम् ।
न गुणा विदुरात्मानं सृज्यमानाः पुनःपुनः ॥
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति ।
गुणानां गुणभूतानां यत्परं परतो महत् ॥
तस्माद्गुणांश्च तत्वं च परित्यज्येह तत्ववित् ।
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ॥
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च ।
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विधिः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

7-43-2 आखुश्च बिलवासिनामिति क.थ.पाठः ॥ 7-43-7 राजासत्त्वानां मित्र उच्यत इति क.ट.थ.॥ 7-43-8 उष्णानां देवानामिन्द्र उच्यत इति क.ट.थ.पाठः ॥ 7-43-15 भगदेवाः कामुकास्तैरनुयातानामनुसृतानां स्त्रीणां सर्वासां मध्ये माहेश्वरी वामलोचनेति सम्बन्धः ॥ भद्रादेवाभिजातानां सर्वेषां वारिजेक्षणेति क.ट.पाठः ॥ 7-43-16 रतीनां प्रीतिसुखानाम् । वसुमत्यः धनवत्यः । धनलाभगर्वितं यत्प्रीतिसुखं तदेव महदित्यर्थः ॥ 7-43-17 वर्णक्रमाश्च राजान इति क.ट.थ.पाठः ॥ 7-43-25 लक्षणं महतो ध्यानमिति क.पाठः ॥

श्रीः