अध्यायः 002

वैशंपायनेन जनमेजयंपति यादवानां मौसलेन निधनप्रकारकथनारम्भः ॥ 1 ॥ कदाचन विश्वामित्राकदिमहर्षिषु द्वारकः मागतेषु कैश्चन यादवैः सांबस्य स्त्रीवेषपरिकल्पनेन मुनीन्प्रति गर्भिणीयं किंरूपमपत्यं प्रसविष्यतीति प्रश्नः ॥ 2 ॥ ततो रुष्टैर्महर्षिभिः स्वकुलविनाशकमायसं मुसलं प्रसविष्यतीति शापदानम् ॥ 3 ॥ ततः परेथुः सांवेन मुसले प्रसूते भीतैस्तै राजाज्ञया तस्य चूर्णकरणेन समुद्र प्रक्षेपणम् ॥ 4 ॥

जनमेजय उवाच ।

कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ।
पश्यतो वासुदेवस्य भोजश्चैवक महारथाः ॥
वैशम्पायन उवाच ।
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् ।
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥
जनमेजय उवाच ।
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः ।
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥
वैशम्पायन उवाच ।
विश्वामित्रं च कण्वं च नारदं च तपोधनम् ।
सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान् ॥
ते वै सांबं पुरस्कृत्य भूषयित्वा स्त्रियं यथा ।
अब्रुवन्नुपसङ्गम्य् दैवदण्डिनिपीडिताः ॥
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ।
ऋषयः साधु जानीत किमियं जनयिष्यति ॥
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः ।
प्रत्यबुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् ।
वासुदेवस्य दायादः सांबोऽयं जनयिष्यति ॥
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ।
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः ।
जरःकृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥
इत्यब्रुवंस्ततो राजन्प्रलब्धास्तैर्दुरात्मभिः । मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ।
तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः ॥
अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैतन्मधुसूदनः ।
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥
एवमुक्त्वा हृषीकेशः प्रविवेश पुरं तदा ।
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥
श्वोभूतेऽथ ततः सांबो मुसलं तदसूकत वै ।
येन वृष्णन्धककुले पुरुषा भस्मसात्कृताः ॥
वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् ।
असूत सापजं घोरं तच्च राज्ञे न्यवेदयन् ॥
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ।
तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप ॥
अघोषयंश्च नगरे वचनादाहुकस्य ते ।
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः ॥
अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह ।
सुरासवो न कर्तव्यः, सर्वैर्नगरवासिभिः ॥
यश्च नो विदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् ।
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥
ततो राजभयात्सर्वे नियमं चक्रिरे तदा ।
नराः सासनमाज्ञाय तस्य राज्ञो महात्मनः ॥ ॥

इति श्रीमन्महाभारते मौसलपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

7-2-2 मुसलैरेरकालग्नैर्मुसलकणैः ॥ 7-2-10 जरा कृष्णमिति झ.पाठः । जरानामा कश्चित्कैवर्तः ॥ 7-2-15 किङ्करो यमदूतस्तत्तुत्यम् ॥ 7-2-19 खयंकृत्वा स्वयंकर्ता ॥

श्रीः