अध्यायः 003

द्वारकायां नानोत्पातप्रादुर्भावः ॥ 1 ॥ तत्तद्दर्शनात्कृष्णेन गान्धारीशापदानानुस्मरेण तस्य सत्यताचिकीर्षया भटैः सर्ववृष्ण्यादीनां तीर्थयात्रोद्धोषणम् ॥ 2 ॥

वैशंपाय उवाच ।

एवं प्रयतमानानां वृष्णीनामन्धकैः सह ।
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।
गृहाण्यावेक्ष्य वृष्णीनां नादृश्यतं पुनः क्वचित् ॥
तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः ।
न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा ॥
उत्पेदिरे महावाता दारुणाश्च दिनेदिने ।
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥
विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा ।
केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि ॥
चीचीकूचीति वाशन्ति शारिका वृष्णिवेश्मसु ।
नोपशाम्यति शब्दस्य सदिवारात्रमेव हि ॥
अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा ।
अजाः शिवानां विरुतमन्वकुर्वत भारत ॥
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥
व्यजायन्त खरा गोषु करभाश्वतरीषु च ।
शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च ॥
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा ।
प्रार्दयन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥
गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ ।
पत्न्यः पतीनुच्चरन्ति पत्नीश्चक पतयस्तथा ॥
विभावसुः प्रज्वलितो वामं विपरिवर्तते ।
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥
उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः ।
व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः ॥
महानसेषु सिद्धेषु संस्कृतेऽतीवि भारत ।
आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः ॥
पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु ।
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ॥
परस्परं च नक्षत्रं हन्यमानं पुनःपुनः ॥
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन ॥
नदन्तं पाञ्चिजन्यं च वृष्णन्धकनिवेशने ।
समन्तात्पर्यवाशन्त रासभा दारुणस्वराः ॥
एवं पश्यन्हृषिकेशः संप्राप्तं कालपर्ययम् ।
त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम् ॥
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः ।
प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षंयाय नः ॥
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः ।
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ॥
पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा ।
यदनुव्याजहारार्ता तदिदं समुपागमत् ॥
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः ।
पुरा व्यूढेष्वनीकेषु दृष्ट्वेत्पातान्सुदारुणान् ॥
इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत् ।
आज्ञापयामास तदा तीर्थयात्रामरिंदमः ॥
अघोषयन्त पुरुषास्तत्र केशवशासनात् ।
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥ ॥

इति श्रीमन्महाभारते मौसलपर्वणि तृतीयोऽध्यायः ॥

7-3-1 कालः कपोतोलूकादिरूपेण ॥ 7-3-2 स एव क्वचित्करालादिरूपोऽदृस्यत क्वचिन्न । आवेक्ष्य परिक्रामन्निति शेषः ॥ 7-3-3 सर्वभूतानां अत्ययो नाशो यस्मात् ॥ 7-3-5 मणिका मृत्पात्राणि ॥ 7-3-11 उच्चरन्ति वञ्चयन्ति ॥ 7-3-14 आहार्यमाणे अन्ने । 7-3-16 स्वनक्षत्रादर्शनमपि स्वमृत्युसूचकमित्यर्थः ॥ 7-3-18 एवमिति । त्रयोदशदिवसः कृष्णपक्षोऽभूदित्यर्थः ॥ 7-3-19 एवं सत्यग्रिमपक्षए वृद्ध्या भाव्यं तन्न जातं प्रत्युतैकातिथिः क्षीणा तत्र ग्रहणं र्चं जातमित्याह चतुर्दशीति ॥

श्रीः