अध्यायः 004

द्वारकायां वृष्ण्यन्तकादिभिरनर्थसूचकदुस्स्वप्नानुभवः ॥ 1 ॥ ततः कृष्णाज्ञाया सस्त्रीबालवृद्धैः प्रभासक्षेत्रगमनम् ॥ 2 ॥ तत्र नृत्तगानादिमहोत्सवानुभवपूर्वकं मद्यादिपानम् ॥ 3 ॥ तत्र सभायां सात्यकिना स्यमन्तकमणिहरणादिमर्मोद्धाटनपूर्वकं कृतवर्मगर्हणम् ॥ 4 ॥ मणिवृत्तान्तश्रवणखि***सत्यभामामनःप्रसादनाय सात्यकिना खड्गेन कृतवर्मणः सिरश्छेदनम् ॥ 5 ॥ ततः कृतवर्मसात्यकिपक्षीयैर्मौसकतृचैः परस्परप्रहारेण परस्परमारणम् ॥ 6 ॥

वैशंपायन उवाच ।

काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि ।
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥
अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु ।
वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः ॥
अलङ्काराश्च च्छत्रं च ध्वजाश्च कवचानि च ।
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयोमयम् ।
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥
युक्तं रथं दिव्यमादित्यवर्णं हयाऽहरन्पश्यतो दारुकस्य ।
ते सागरस्योपरिष्टादगच्छ- न्मनोजवाश्चतुरो वाजिमुख्याः ॥
तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्धनाभ्याम् ।
उच्चैर्जह्रुरप्सरसश्च दिव्या देवा ऊचुर्गम्यतां तीर्थयात्राः ॥
`भगवद्दर्शनस्पर्शस्नेहैर्विततभोगिनः । दिवः प्रवेशानार्थं ते विमानैर्दिवमाययुः ॥'
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः ।
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥
ततो मनोहरा हृष्टाःक पेयं मांसं मधूनि च ।
बहु नानाविधं चक्रुस्त्वरिताः कालचोदिताः ॥
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः ।
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥
ततः प्रभासे न्यवसन्यथोद्दिष्टं यथागृहम् ।
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥
निविष्टांस्तान्निशाम्याथ समुद्रान्ते स योगवित् ।
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् ।
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः ।
अपश्यन्नुद्धवं यान्तं तेजसाऽऽवृत्य रोदसी ॥
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् ।
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥
ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम् ।
अवर्तत महापानं प्रभासे तिग्मतेजसाम् ॥
कृष्णस्य सन्निधौ रामः सहितः कृतवर्मणा ।
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥
ततः परिषदो मध्ये युयुधानो मदोत्कटः ।
अब्रवीत्कृतवर्माणमवहास्यावमत्य च ॥
कः क्षत्रियो हन्यमानः सुप्तान्हन्यान्मृतानिव ।
तन्न मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥
इत्युक्ते युयुधानेन पूजयामास तद्वचः ।
प्रद्युम्नो रथिनांश्रेष्ठो हार्दिक्यमवमत्य व ॥
ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत् ।
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥
भूरिश्रवाश्छिन्नबाहुर्युर्द्धे प्रायगतस्त्वया ।
वधेन सुनृशंसेन कथं वीरेण पातितः ॥
इति तस्य वचः श्रुत्वा केशवः परवीरहा ।
तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे स मन्युमान् ॥
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् ।
तां कथां श्रावयामास सात्यकिर्मधुसूदनम् ॥
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा ।
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् ।
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ।
एष गच्छामि पदवीं सत्येन च तथा शपे ॥
सौप्तिके ये च निहताः सुप्ता येन दुरात्मना ।
द्रोणपुत्रसहायेन पापेन कृतवर्मणा ॥
समाप्तमायुरस्याद्य यशश्चैव सुमध्यते । इत्येवमुक्त्वा खङ्गेन केशवस्य समीपतः ।
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥
तथाऽन्यानपि निघ्नन्तं युयुधानं समन्ततः ।
अभ्यधावद्धृषीकेशो विनिवारयितुं तदा ॥
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः ।
भोजान्धका महाराज शैनेयं पर्यवारयन् ॥
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः ।
न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥
ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा ।
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः ।
तदनन्तरमागच्छन्मोचयिष्यञ्शिनेः सुतम् ॥
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह । व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ ।
बहुत्वान्निहतौ तत्र उभौ कुष्णस्य पश्यतः ॥
हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः ।
एरकाणां ततो मुष्टिं कोपाज्जग्राह केशवः ॥
तदभून्मुसलं घोरं वज्रकल्पमयोमयम् ।
जघान कुष्णस्तांस्तेनि येये प्रमुखतोऽभवन् ॥
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा ।
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥
यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृपः ।
वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत ।
ब्रह्मदण्डकृतं सर्वमिति तद्विद्वि पार्थिव ॥
आविध्याविध्य ते राजन्प्रहरन्ति स्म तैस्तृणैः ।
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत ।
मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् ॥
पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः ।
नासीत्पलायने बुद्धिर्वधअयमानस्य कस्यचित् ॥
तत्रापश्यन्महाबाहुर्जानन्कालस्य पर्ययम् ।
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥
सांबं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ।
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः ।
स निःशेषं तदा चक्रे शार्ङ्गचक्रगंदाधरः ॥
तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः ।
दारुकश्चैव दाशार्हमूवतुर्यन्निबोध तत् ॥
भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः ।
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥ ॥

इति श्रीमन्महाभारते मौसलपर्वणि चतुर्थोऽध्यायः ॥

7-4-1 मुष्णन्ती स्त्रीणां मङ्गलसूत्रादिकं चोरयन्ती ॥ 7-4-12 निश्मम्य दृष्ट्वा । अर्थविशारदः मोक्षपण्डितः ॥ 7-4-15 ब्राह्मणार्थद्रव्यस्यान्यत्र विनियोजनमायुःक्षयकरमित्यर्थः ॥ 7-4-41 आविध्य विद्ध्वा ॥ 7-4-44 तत्र यन्मुसलमपस्यत्तदेवावष्टभ्य तस्थावित्यन्वयः ॥

श्रीः