अध्यायः 005

सर्वयादवेषु निहतेषु बभ्रुदारुकाभ्यां सह बलभद्रमन्वेषसाणेन कृष्णेन वने वृक्षाश्रितस्य तस्य दर्शनम् ॥ 1 ॥ ततः कृष्णेन पाण्डिवान्प्रति दारुकप्रेषणम् ॥ 2 ॥ बलभद्रेण योगात्सर्पशरीरस्वीकारेण समुद्रप्रवेशः ॥ 3 ॥ कृष्णेन शरीरत्यागाय योगेन शयनम् ॥ 4 ॥ व्याधेन मृगबुद्ध्या कृष्णस्य पादतले सायकेन गाढवेधनम् ॥ 5 ॥ कृष्णेन पश्चात्समीप मेत्य पश्चात्तापेन प्रणमतो व्याधस्य देवैः स्वर्गप्रापणम् ॥ 6 ॥ ततः शरीरत्यागपूर्वकं दिवं गतेन कृष्णेन देवैः पुष्पवर्षण पूर्वकं स्तुत्या प्रत्युद्गम्यमानेनि सता निजपरधामप्रवेशः ॥ 7 ॥

वैशम्पायन उवाच ।

ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः ।
अथापश्यन्राममनन्तवीर्यं वृक्षाश्रितं चिन्तयानं विविक्ते ।
ततः समासाद्य महानुभावः कृष्णस्तदा दारुकमन्वशासत् ।
गत्वा कुरून्सर्वमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम् ॥
ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान्यादवान्ब्रह्मशापात् ।
इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः ॥
ततो गते दारुके केशवोथ दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् ।
स्त्रियो भवान्रक्षितुं यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात् ॥
स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च ।
तं वै यातं सन्निधौ केशवस्य त्वरन्तमेकं सहसैव बभ्रूम् । ब्रह्मानुशप्तमवधीन्महद्वै कूटे युक्तं मुसलं लुब्धकस्य ॥
ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णेऽग्रजं भ्रातरमुग्रतेजाः ।
हहैव त्वं मां प्रतीक्षस्व राम यावत्स्त्रियो ज्ञातिवशाः करोमि ॥
ततः पुरीं द्वारवतीं पविश्य जनार्दनः पितरं प्राह वाक्यम् ।
सर्वं भवान्रक्षतु नः समग्रं धनंजयस्यागमनं प्रतीक्षन् ॥
रामो वनान्ते प्रतिपालयन्मा- मास्तेऽद्याहं तेन समानमिष्ये ।
दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुङ्गवानाम् ॥
नाहं विना यदुभिर्यादवानां पुरीमिमामशकं द्रष्टुमद्य ।
तपश्चरिष्यामि निबोध तन्मे रामेणि सार्धं वनमभ्युपेत्य ॥
इतीदमुक्त्वा शिरसा च पादौ संस्पृश्य कृष्णस्त्वरितो जगाम ।
ततो महान्निनदः प्रादुरासी- त्सस्त्रीकुमारस्य पुरस्य तस्य ॥
अथाब्रवीत्केशवः सन्निवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम् ।
पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः ॥
ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते ॥
अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निस्सरन्तं महान्तम् ।
श्वेतं ययौ सततः प्रेक्षमाणो महार्णवो येन महानुभावः ।
सहस्रशीर्षः पर्वताभोगवर्ष्मा रक्ताननः स्वां तनुं तां विमुच्य ॥
संदृश्यन्तं सागरान्तं विशन्तं सम्यक्तदा सागरः प्रत्यगृह्णात् ।
नागा दिव्याः सरितश्चैव पुण्याः कर्कोटको वासुकिस्तक्षकश्च ॥
पृथुश्रवा अरुणः कुञ्जरश्च मिश्री शङ्खः कुमुदः पुण्डरीकः ।
तथा नागो धृतराष्ट्रो महात्मा ह्रादः क्राथः शितिपृष्ठो निकेतुः ॥
तथा नागौ चक्रमन्दातिषण्डौ नागश्रेष्ठो दुर्मखश्चांबरीषः ।
स्वयं राजा वरुणश्चापि राज- न्प्रत्युद्गम्य स्वागतेनाभ्यनन्दन् ।
तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः सङ्कर्षणं भूधरं शुद्धबुद्धिम् ॥
ततो गते भ्रातरि वासुदेवो जानन्सर्वा गतयो दिव्यदृष्टिः ।
वने शून्ये विचरंश्चिन्तयानो भूमौ चाथ संविवेशाग्र्यतेजाः ॥
सर्वं तेन प्राक्तदा वित्तमासी- द्गान्धार्या यद्वाक्यमुक्तं स्वधर्मात् ।
दुर्वाससा पारसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥
`कुलस्त्रीणां संवृतानां गवां च द्विजेन्द्राणां बलमादाय धर्मे ।
योनिर्देवानां वरदो ब्रह्मदेवो गोविन्दाख्यो वासुदेवोऽथ नित्यः ॥
संचिन्तयन्नन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः ।
मेने ततः संक्रमणस्य कालं ततश्चकारेन्द्रियसन्निरोधम् ॥
यथा च लोकत्रयपालनार्थं दुर्वासवाक्यप्रतिपालनाय ।
देवोपि सन्देहविमोक्षहेतो- र्निमित्तमैच्छत्सकलार्थतत्त्ववित् ॥
स सन्निरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः ।
जरोथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥
स केशवं योगयुक्तं शयानं मृगासक्तो लुब्धकः सायकेन ।
जरोऽविध्यत्पादतले त्वरावां- स्तं चाभितस्तज्जिघृक्षुर्जगाम ॥
अथापश्यत्पुरुषं योगयुक्तं पीतांबरं लुब्धकोऽनेकबाहुम् ।
मत्वाऽऽत्मानं त्वपराद्धं स तस्य पादौ जरो जगृहे शङ्कितात्मा ॥
आश्वासितः पुण्यफलेन भक्तया तथाऽनुतापात्कर्मणो जन्मनश्च ।
दृष्ट्वा तथा देवमनन्तवीर्यं देवैस्स्वर्गं प्रातितस्त्यक्तदेहः ॥
गणैर्मुनीनां पूजितस्यत्र कृष्णो गच्छन्नूर्द्ध्वं व्याप्य लोकान्स लक्ष्म्या ॥
दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे ।
प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः ॥
ततो राजन्भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च ।
योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माऽप्रमेयम् ॥
ततो देवैर्ऋषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन् ।
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥
तं वै देवाः प्रत्यनन्दन्त राज- न्मुनिश्रेष्ठा ऋग्भिरानर्चुरीशम् ।
तं गन्धर्वाश्चापि तस्थुः स्तुवन्तः प्रीत्य चैनं पुरुहूतोऽभ्यनन्दत् ॥
`नमोनमस्ते भगवञ्शार्ङ्गधन्व- न्धर्मस्थित्या प्रादुरासीर्धरायाम् ।
कंसाख्यादीन्देवशत्रूंश्च सर्वा- न्हत्वा भूमिः स्थापिता भारतप्ता ॥
दिव्यं स्थानमजरं चाप्रमेयं दुर्विज्ञेयं चागमैर्गम्यमग्र्यम् ।
गच्छ प्रभो रक्ष चार्तिं प्रपन्ना- न्कल्पेकल्पे जायमानांश्च मर्त्यान् ॥
इत्येवमुक्त्वा देवसंघोऽनुगम्य श्रिया युक्तं पुष्पवृष्ट्या ववर्ष ।
वाणी चासीत्संश्रिता रूपिणी सा भानोर्मध्ये प्रविश त्वं तु राजन् ॥
भुजैश्चतुर्भिः समुपेतं ममेदं रूपं विशिष्टं जीवितं संस्थितं च ।
भूमौ गतं पूजयताप्रमेयं सदा हि तस्मिन्निवसामीति देवाः ॥
देवा निवृत्तास्तत्पदं नाप्नुवन्तो बुद्ध्या देवं संस्मरन्तः प्रतीताः ।
ब्रह्माद्यास्ते तद्गुणान्कीर्तयन्तः शुभाँल्लोकान्स्वान्प्रपेदुः सुरेन्द्राः ॥ ॥

इति श्रीमन्महाभारते मौसलपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

7-5-1 पतन्तः शीघ्रं गच्छन्तः ॥ 7-5-2 वधं मधूनामिति क.ट. पाठः ॥ 7-5-4 वित्तभावात् इति ट.पाठः ॥ 7-5-5 कूटे लोहमुद्गरे युक्त बद्ध भुसलं ब्राह्मणशप्तं बभ्रुं स्वयमेव निपत्यावधीत् ॥ 7-5-7 स्त्रियो भवान्रक्षत्विति झ.पाठः ॥ 7-5-13 महार्णवे येन इति क.ट.पाठः ॥

श्रीः