अध्यायः 006

दारुकेण हास्तिनपुरमेत्य पाण्डवेषु सर्वयादवक्षयनिवेदनम् ॥ 1 ॥ अर्जुनेन द्वारकामेत्य रुक्मिण्यादिपरिसान्त्वनपूर्वकं वसुदेवगृहंप्रति गमनम् ॥ 2 ॥

वैशम्पाय उवाच ।

दारुकोपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजान्धककौकुरान् ।
पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन् ॥
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा ।
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो ।
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥
याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन् ।
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥
षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहाः ।
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥
तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः ।
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोभिवीक्षितुम् ॥
स तां वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् ।
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥
रत्नशैवलसंघातां वज्रप्राकारमालिनीम् ।
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥
रामकृष्णमहाग्राहां द्वारकां सरितं तदा ।
कालपाशग्रहां भीमां नदीं वैतरणीमिव ॥
ददर्श वासविर्धीमान्विहीनां वृष्णिपुङ्गवैः । गतश्रियं विरानन्दां पद्मिनीं शिशिरे यथा ।
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः ।
सस्वनं बाष्पमुत्सृज्य निपात महीतले ॥
सात्राजिती ततः सत्या रुक्मिणी च विशांपते ।
अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् ॥
ततस्तं काञ्चने पीठे समुत्ताप्योपवेश्य च ।
अभिनन्द्य महात्मानं परिवार्योपतस्थिरे ॥
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः ।
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥ ॥

इति श्रीमन्महाभारते मौसलपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

7-6-14 अब्रुवन्त्यो महामानमिति झ.पाठः ॥

श्रीः