अध्यायः 001

अथाश्रमवासपर्व ॥ 1 ॥

युधिष्ठिरेण राज्यपरिपालनम् ॥ 1 ॥ कुन्तीद्रौपद्यादिभिर्गान्धार्यां श्वश्रूवद्वर्तनम् ॥ 2 ॥ भीमवर्जमर्जुनादिभिर्युधिष्ठिरशासनेन विशेषतो धृतराष्ट्रानुवर्तनम् ॥ 3 ॥

श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जनमेजय उवाच ।
प्राप्य पैतामहं राज्यं मम पूर्वपितामहाः ।
कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥
स तु राजा हतामात्यो हतपुत्रो निराश्रयः ।
कथमासीद्धतैश्वर्यो गान्धारी च तपस्विनी ॥
कियन्तं चैव कालं ते मम पूर्वपितामहाः ।
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥
वैशम्पायन उवाच ।
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः ।
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ॥
धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा ।
वैश्यापुत्रश्च मेधावी युयुत्सुः कुरुसत्तम ॥
पाण्डवाः सर्वकार्येषु पर्यपृच्चन्त तं नृपम् ।
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥
सदाऽभिगम्य ते वीराः पर्युपासन्त तं नृपम् ।
पादाभिवादनं कृत्वा धर्मिराजमते स्थिताः ॥
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ।
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत ॥
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः ।
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥
शयनानि महार्हाणि वासांस्याभरणानि च ।
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ॥
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ।
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत ॥
विदुरः संजयश्चैव युयुत्सुश्चैव कौरव ।
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥
श्यालो द्रोणस्य यश्चासीद्दयितो ब्राह्ममो महान् ।
स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥
व्यासश्च भगवान्नित्यमासांचक्रे नृपेण ह ।
कथाः कुर्वन्पुराणर्षिर्देवर्षिपितृरक्षसाम् ॥
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च ।
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुबहून्यपि ।
प्राप्यन्तेऽर्थेः सुलघुभिः सुनयाद्विदुरस्य वै ॥
अकरोद्बन्धमोक्षं च वध्यानां मोक्षणं तथा ।
न च धर्मसुतो राजा कदाचित्किञ्चिदब्रवीत् ॥
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः ।
सर्वान्कामानुपस्थाप्य धृतराष्ट्रे न्यवेदयत् ॥
आरालिकाः सूपकारा रागषाडविकास्तथा ।
उपातिष्ठन्त राजानं धृतराष्ट्रं यथापुरम् ॥
वासांसि च महार्हाणि माल्यानि विविधानि च ।
उपाजह्रुर्यथाकालं धृतराष्ट्रस्य पाण्डवाः ॥
मैरेयमधुमांसानि पानकानि लघूनि च ।
चित्रान्भक्ष्यविकारांश्च चक्रुस्तस्य यथा पुरा ॥
ये चापि पृथिवीपालाः समाजग्मुस्ततस्ततः ।
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथापुरा ॥
कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी ।
उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥
धृष्टकेतोश्च भगिनी जरासन्धसुता तथा । एताश्चान्याश्च बह्व्यो वै योषितः पुरुषर्षभ ।
किंकराः पर्युपातिष्ठन्सर्वाः सुबलजां तथा ॥
यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात् ।
इति तानन्वशाद्भातॄन्नित्यमेव युधिष्ठिरः ॥
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् ।
सविशेषमवर्तन्ति भीममेकं तदा विना ॥
न हि तत्तस्य वीरस्य हृदयादपसर्पति ।
धृतराष्ट्रस्य दुर्बुद्ध्या यद्वृत्तं द्यूतमण्डले ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

7-1-2 गान्धारी च यशस्विनीति झ.थ.पाठः ॥ 7-1-5 उपातिष्ठदाराधितवान् ॥ 7-1-9 सतां वृत्तिमवर्तन्तेति थ.पाठः ॥ 7-1-13 तस्मिन्धृतराष्ट्रे समभवत्तन्निकटे अभवत् ॥ 7-1-14 वासं चक्रे नृपेण हेति क.थ.पाठः ॥ 7-1-16 प्रभावाद्विदुरस्य वै इति क.थ.पाठः ॥ 7-1-19 अरया शस्त्रविशेषेण लूनं छिन्नं शाकादि अरालु तत्संस्कुर्वन्ति ते आरालिकाः शाकविशेषकर्तारः रागखाण्डविकास्तथेति झ.पाठः । रागषाडवं पिप्पलीशुठीशर्करोपेतो मुद्गयूषस्तत्कर्तारो रागषाडविकाः ॥

श्रीः