अध्यायः 006
अथाश्रमवासपर्व ॥ 1 ॥
वनं यियासुना धृतराष्ट्रेण युधिष्ठिराय राजनीत्युपदेशः ॥ 1 ॥
वैशम्पायन उवाच ।
ततो राज्ञाऽभ्यनुज्ञातो धृतराष्ट्रो महामनाः ।
ययौ स्वभवनं राजा गान्धार्याऽनुगतस्तदा ॥
मन्दप्राणगतिर्धामान्कृच्छ्रादिव समुद्वहन् ।
पदानि स महीपालो जीर्णो गजपतिर्यथा ॥
तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः ।
स चापि परमेष्वासः कृपः सारद्वतस्तथा ॥
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः ।
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा ॥
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी ।
वधूभिरुपचारेणि पूजिताऽभुङ्क्त भारत ॥
कृताहारं कृताहाराः सर्वे ते विदुरादयः ।
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ॥
ततोऽब्रवीन्महाराजः कुन्तीपुत्रमुपह्वरे ।
निषण्णं पाणिना पृष्ठे संस्पृशन्नंबिकासुतः ॥
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन ।
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते ॥
तत्तु शक्यं महाराज रक्षितुं पाण्डुनन्दन ।
राज्यं धर्मेण कौन्तेय विद्वानसि निबोध तत् ॥
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर ।
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् ॥
प्रातरुस्थाय तान्राजन्पूजयित्वा यथाविधि ।
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ॥
ते तु सम्मानिता राजंस्त्वया लोकहितार्थिना ।
प्रवक्ष्यन्ति हितं तात सर्वथा तव भारत ॥
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय ।
हितायैव भविष्यन्ति रक्षितं द्रविणं यथा ॥
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् ।
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ॥
चारयेथाश्च सततं चारैरविदितः परैः ।
परीक्षितैर्बहुविधैः स्वराष्ट्रेषु परेषु च ॥
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् ।
अट्टाट्टालकसम्बाधं षट्पदं सर्वतो दिशम् ॥
तस्य द्वाराणि सर्वाणि पर्याप्तानि बृहन्ति च ।
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च ॥
पुरुषैरलमर्थस्ते विदितैः कुलशीलतः ।
आत्मा च रक्ष्यः सततं भोजनादिषु भारत ।
विहाराहारकालेषु माल्यशय्यासनेषु च ॥
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः ।
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ॥
मन्त्रिणिश्चैव कुर्वीथा द्विजान्विद्याविशारदान् ।
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् ॥
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिःक सह ।
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ॥
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः ।
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन ॥
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः ।
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गवः ॥
मन्त्रभेदे हि ये दोषा भन्ति पृथिवीक्षिताम् ।
न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः ॥
दोषांश्च मन्त्रभेदस्य ब्रूयास्त्वं मन्त्रिमण्डले ।
अभेदे च गुणा राजन्पुनःपुनररिंदम ॥
पौरजानपदानां च शौचशौचे युधिष्ठिर ।
यथा स्याद्विदितं राजंस्तथा कार्यं कुरूद्वह ॥
व्यवहारश्च ते राजन्नित्यमाप्तैरधिष्ठितः ।
योज्यस्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठितः ॥
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत ।
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर ॥
आदानरुचयश्चैव परदाराभिमर्शिनः ।
उग्रदण्डिप्रधानाश्च मिथ्याव्याहारिणस्तथा ॥
आक्रोष्टारश्च लुब्धाश्च हर्तारः साहसप्रियाः ।
सभाविहारभेत्तारो वर्णानां च प्रदूषकाः ।
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः ॥
`अवरोधभूमौ भृत्यैश्च पानं सह विवर्जयेत् ।
आक्रोशन्त्यनुमत्तास्ते कलत्रं वाऽपि गृह्णते ॥
जिघांसन्त्यपि शस्त्रेण नष्टाः क्रीडन्ति चोत्कटाः ।
नानाक्षेपा व्याहरन्ति गम्यागम्यं न जानते ॥
अतिपानेनि राजाऽपि सर्वं कोशं विनाशयेत् ।
वितरेद्गायकेभ्यश्च वृथा च द्रव्यसञ्चयम् ॥
शब्दमात्मनि दोषांश्च पिबेदेकश्च जायया ।
युक्त्या प्रकाशमयति सुवीर्यस्यि विवृद्धये ॥'
प्रातरेव हि पश्यथा ये कुर्युः प्रियकर्म ते ।
अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः ॥
पश्येथाश्चि ततो योधान्सदा त्वं प्रतिहर्षयन् ।
दूतानां च चराणां च प्रदोषस्ते सदा भवेत् ॥
सदा चापररात्रान्ते भवेत्कार्यार्थनिर्णयः ।
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् ॥
सर्वे त्वौपयिकाः कालाः कार्याणां भरतर्षभ ।
तथैवालङ्कृतः काले तिष्ठिथा भूरिदक्षिणः ॥
`न विद्राव्य च तिष्ठेत परिहार्य विभूषणम् ।
प्रयोज्यं सर्वदैवेह मङ्गल्यं पापनाशनम् ॥'
चक्रवत्तात कार्याणां पर्यायो दृश्यते सदा ।
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा ।
विविधस्य महाराज विपरीतं विवर्जयेः ॥
चारैर्विदित्वा शत्रूंश्च ये राज्ञामन्तरैषिणः ।
तानाप्तैः पुरुषैर्दूराद्धातयेथा नराधिप ॥
कर्म दृष्ट्वाऽथ भृत्यांस्त्वं वरयेथाः कुरूद्वह ।
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः ॥
सेनाप्राणेता च भवेत्तव तात दृढव्रतः ।
शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः ॥
सर्वे जनपदाश्चैव तव कर्माणि पाण्डव ।
गोवद्रासभवच्चैव कुर्युर्ये व्यवहारिणः ॥
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च ।
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर ॥
देशजाश्चैव पुरुषा विक्रान्ताः स्वेषु कर्मसु ।
यात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया ॥
गुणार्थिनां गुणः कार्यो विदुषा वै जनाधिप ।
अविचार्याश्च ते ते स्युरचला इव नित्यशः ॥ ॥
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
7-6-5 अभुङ्क्त भुक्तवती ॥ 7-6-8 अष्टाङ्गे
स्वाम्यमात्यादियुते ॥ 7-6-13 राज्यवत्परिपालयेति क.थ.पाठः ॥ 7-6-16 अष्टा
दुर्गोपरिभागे सञ्चारस्थानानि । षट्पदं षड्भिः पदैः पदनीयैः स्थानैर्युक्तम् ।
तेन सप्तप्राकारमिति गम्यते । तत्र सप्तमस्यान्तःपुरत्वात् षडेवान्येषां
पदनीयानि स्थानानि ॥ 7-6-22 निःशलाके अतृणे । सतृणे ह्यासन्नः परचारो
ज्ञातुमशक्य इति ॥ 7-6-29 आदानरुचयः उत्कोचोपजीविनः ॥ 7-6-36 प्रदोषो रजनीमुखं
दूतादीनां दर्शनकालः । प्रदेयस्ते सदा भवेदिति क.थ.पाठः ॥ 7-6-44 गवादिवत्
आहारमात्रवेतनाः । व्यवहारिणः कारुशिल्पिप्रभृतयः ॥
श्रीः