अध्यायः 010

अथाश्रमवासपर्व ॥ 1 ॥

धृतराष्ट्रेण पौरान्प्रति दुर्योधनपक्षपातेन स्वकृतापनयक्षमापनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।

शान्तनुः पालयामास यथावद्वसुधामिमाम् । तथा विचित्रवीर्यश्च भीष्मेण परिपालितः ।
पालयामास नस्तातो विदितं वो न संशयः ॥
यथा च पाण्डुर्भाता मे दयितो भवतामभूत् ।
स चापि पालयामास यथावत्तच्च वेत्थ ह ॥
`अनन्तरं हि पितरमनुज्ञातो युधिष्ठिरः । नात्र किञ्चिन्मृषा जातु भाषतेति मतिर्मम ॥'
मया च भवतां सम्यक् शुश्रूषा या कृताऽनघाः ।
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः ॥
यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम् ।
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ॥
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् । विमर्दः सुमहानासीदनयात्स्वकृतादथ ।
`घातिताः कौरवेयाश्च पृथिवी च विनाशिता ॥'
तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम् ।
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः ॥
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः ।
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वाऽनुजानथ ॥
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी ।
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ॥
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा ।
अनुजानीत भद्रं वो व्रजाव शरणं च वः ॥
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः । सर्वैर्भवद्भिर्द्रव्यः समेषु विषमेषु च ।
न जातु विषमं चैव गमिष्यति कदाचन ॥
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः ।
लोककपालसमा ह्येते सर्वधर्मार्थदर्शिनः ॥
`चतुर्णां लोकपालानां मध्ये विपरिवर्तते ।' ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः ॥
`एवमेव महाबाहुर्भीमार्जुनयमैर्वृतः ।' युधिष्ठिरो महातेजा भवतः पालयिष्यति ॥
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः । एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः ।
भवन्तोऽस्य च वीरस्य न्यासभूताः कृता मया ॥
यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम ।
यदन्येनि मदीयेन तदनुज्ञातुमर्हथ ॥
भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन ।
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ॥
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् ।
कृते याचेऽद्य वः सर्वान्गान्धारीसहितोऽनघाः ॥
इत्युक्तांस्तेन ते सर्वे पौरजानपदा जनाः ।
नोचुर्बाष्पकलाः किञ्चिद्वीक्षांचक्रुः परस्परम् ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि दशमोऽध्यायः ॥ 10 ॥

7-10-7 न कर्तव्यमनुज्ञातुमिहार्हथेति क.ट.थ.पाठः ॥ 7-10-16 अन्येन भृत्येन । अनुज्ञातुं क्षन्तुम् ॥

श्रीः