अध्यायः 011

अथाश्रमवासपर्व ॥ 1 ॥

पौरजनैर्ब्राह्मणमुखेन धृतराष्ट्रंप्रति समाश्वासनपूर्वकं कृच्छ्रेणि वनगमनाभ्यनुज्ञानम् ॥ 1 ॥

वैशम्पायन उवाच ।

एवमुक्तास्तु ते तेन पौरजानपदा जनाः ।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् ॥
तूष्णींभूतांस्ततस्तांस्तु वाष्पकण्ठान्महीपतिः ।
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥
वृद्धं च हतपुत्रं च धर्मपत्न्या सहानया ।
विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै ।
वनवासाय धर्मज्ञा धर्मजेन नृपेण ह ॥
सोहं पुनःपुनर्याचे शिरसाऽवनतोऽनघाः ।
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥
वैशम्पायन उवाच ।
तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते ।
रुरुदुः सर्वशो राजन्समेताः कुरुजाङ्गलाः ॥
उत्तरीयैः करैश्चापि संछाद्य वदनानि ते ।
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् ॥
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् ।
दुःखं संधारयन्तो हि नष्टसंज्ञा हवाभवन् ॥
ते विनीय तमायासं धृतराष्ट्रवियोगजम् ।
शनैः शनैस्तदाऽन्योन्यमब्रुवन्स्वमतान्युत ॥
ततः सञ्चिन्त्य ते सर्वे वाक्यान्यथ समासतः ।
एकस्मिन्ब्राह्मणे कार्यमावेस्योचुर्नराधिपम् ॥
ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः ।
सम्भाव्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥
अनुमान्य महाराजं सदः समनुभाष्य च ।
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् ।
वक्ष्यामि तदहं वीर तज्जुषस्व नपाधिप ॥
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो ।
नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम् ॥
न जात्वस्य च वंशस्य राज्ञां कश्चित्कदाचन ।
राजाऽऽसीद्यः प्रजापालः प्रजानामप्रियोऽभवत् ॥
पितृवन्मातृवच्चैव भवन्तः पालयन्ति नः ।
न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृपः ॥
`प्रियाणि कुर्वन्सर्वेषामनुवृत्त्यर्थमुद्यतः ।' यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः ।
तथा कुरु महाराज स हि नः परमो गुरुः ॥
त्यक्ता वयं तु भवता दुःखशोकपरायणाः ।
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च । भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव ।
भवद्बुद्धियुजा चैवि पाण्डुना पृथिवीक्षिता ॥
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः । न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप ।
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ।
वयसा स्म यथा सम्यग्भवतो विदितं तथा ॥
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता ।
पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥
राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम् ।
कुरुसंवरणादीनां भरतस्य च धीमतः ॥
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः ।
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥
उषिताः स्म सुखं नित्यं भवता परिपालिताः ।
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति ।
भन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥
न तद्दुर्योधनकृतं न च तद्भवता कृतम् ।
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः ॥
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् ।
दैवं पुरुषकारेणि न शक्यमपि बाधितुम् ॥
अक्षौहिण्यो महाराज दशाष्टौ च समागताः ।
अष्टादशाहेन हताः कुरुभिर्योधपुङ्गवैः ॥
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना ।
युयुधानेन वीरेण धृष्टद्युम्नेन चाहवे ॥
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा ।
न च क्षयोऽयं नृपते क्रते दैवबलादभूत् ॥
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः ।
कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना ॥
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः ।
पृथिवी निहता सर्वा सहया सरथद्विपा ॥
न स राज्ञां वधे सूनुः कारणं ते महात्मनाम् ।
न भवान्न च ते भृत्या न कर्णो न च सौबलः ॥
यद्विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः ।
सर्वं दैवकृतं विद्धि कोत्र किं वक्तुमर्हति ॥
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः ।
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ॥
लभतां वीरलोकं स ससहायो नराधिपः । द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम् ।
प्राप्स्यते च भवान्पुण्यं धर्मे च सततं स्थितः ।
वेद धर्मं महाबाहो लौक्यं वैदिकमेव च ॥
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः ।
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ॥
अनुवर्त्स्यन्ति वा धीमन्समेषु विषमेषु च ।
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् ॥
ब्रह्मदेयाग्रहारांश्च पारिबर्हांश्च पार्थिवः ।
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः ॥
दीर्घदर्शीं मृदुर्दान्तः सदा वैश्रवणो यथा ।
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः ॥
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः ।
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ॥
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै ।
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ॥
मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः ।
वीर्यवन्तो महात्मानः पौराणां च हिते रताः ॥
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती ।
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् ॥
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् ।
न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः ॥
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः ।
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥
स राजन्मानसं दुःखमपनीय युधिष्ठिरात् ।
कुरु कार्याणि धर्म्याणि नमस्ते पुरुषर्षभ ॥
वैशम्पायन उवाच ।
तस्य तद्वचनं धर्म्यमनुमान्य गुणोत्तरम् ।
साधुसाध्विति सर्वः स जनः प्रतिगृहीतवान् ॥
धृतराष्ट्राश्च तद्वाक्यमभिपूज्य पुनःपुनः ।
विसर्जयामास तदा प्रकृतीस्तु शनैःशनैः ॥
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा ।
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ ॥
ततो विवेश भवनं गान्धार्या सहितो निजम् ।
आगतायां च शर्वर्यां सुखं शेते नराधिपः ॥ ॥

इति श्रीमन्महाभारते आमश्रवासिकपर्वणि आश्रमवासपर्वणि एकादशोऽध्यायः ॥ 11 ॥

श्रीः