अध्यायः 012

अथाश्रमवासपर्व ॥ 1 ॥

धृतराष्ट्रेण भीष्मदुर्योधनादीनां श्राद्धदानाय विदुरमुखाद्युधिष्ठिरंप्रति द्रव्ययाचनम् ॥ 1 ॥ तच्छ्रवणेन विमनायमाभीमे तद्भादज्ञेनार्जुनेन तम्प्रति द्रव्ययाचने भीमेन धृतराष्ट्रापनयानुस्मारणपूर्वकं तदनङ्गीकरणम् ॥ 2 ॥

वैशम्पायन उवाच ।

ततो रजन्यां व्युष्टायां धृतराष्ट्रोंऽबिकासुतः ।
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥
स गत्वा राजवचनादुवाचाच्युतमीश्वरम् ।
युधिष्ठि महातेजाः सर्वबुद्धिमतांवरः ॥
धृतराष्ट्रो महाराजो वनवासाय दीक्षितः ।
गमिष्यति वनं राजन्नागतां कार्तिकीमिमाम् ॥
स त्वां कुरुकुलश्रेष्ठ किञ्चिर्थमभीप्सति ।
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ॥
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः । पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः ।
यदि चाप्यनुजानीषे सैन्धवापशदस्य च ॥
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः ।
हृष्टःक सम्पूजयामास गुडोकेशश्च पाण्डवः ॥
न च भीमो द्दढक्रोधस्तद्वचो जगृहे तदा ।
विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥
अभिप्रायं विदित्वा तु भीमतसेनस्य फल्गुनः ।
किरीटी किञ्चिदानम्य तमुवाच नरर्षभम् ॥
भीम राजा पिता वृद्धो वनवासाय दीक्षितः ।
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ॥
भवता निर्जितं वित्तं दातुमिच्छति कौरवः ।
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचते ।
याचितो यः पुराऽस्माभिः पश्य कालस्य पर्ययम् ॥
योसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः ।
परैर्विनिहतामात्यो वनं गन्तुमभीप्सति ॥
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् ।
अयशस्यमतोऽन्यत्स्यादधर्मश्च महाभुजः ॥
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् ।
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ ॥
एवं ब्रुवाणं बीभत्सुं धर्मराजोऽप्यपूजयत् ।
भीमसेनस्तु सक्रोधमुवाच विजयं तदा ॥
वयं भीष्मस्य दास्यामः प्रेतकार्यं तु फल्गुन ।
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च ॥
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः ।
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति ॥
श्राद्धानि पुरुषव्याघ्र मा प्रदात्कौरवो नृपः ।
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः ॥
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः ।
यैरियं पृथिवी कृत्स्ना घातिता कुलपांसनैः ॥
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् ।
अज्ञातवासगमनं द्रौपदीशोकवर्धनम् ॥
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मद्गोचरो गतः । कृष्णाजिनोपसंवीतो हृताभरणभूषणः ।
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् ॥
क्व तदा द्रोणभिष्मौ तौ सोमदत्तोपि वाऽभवत् । यत्र द्वादश वर्षाणि वने वन्येन जीवथ ।
न तदा त्वां पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥
किं ते तद्विस्मृतं पार्थक यदेष कुलपांसनः ।
दुर्बुद्धिर्विदुरं प्राह द्यूते किं जितमित्युत ॥
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः ।
उवाच वचनं धीमाञ्जोषमास्स्वेति भर्त्सयन् ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

7-12-4 किञ्चिदर्थं किञ्चित्कार्यं कर्तुं त्वामभीप्सति द्रष्टुमिति शेषः ॥ 7-12-8 किञ्चिदागम्य भीमं वचनमब्रवीदिति क.थ.पाठः ॥

श्रीः