अध्यायः 016
अथाश्रमवासपर्व ॥ 1 ॥
धृतराष्ट्रेण कुन्तीस्कन्धावसक्तहस्ताया गान्धार्या अंसावलम्बनेन सशोकैः पौरैर्युधिष्ठिरादिभिश्चानुगम्यमानेन सता वनं प्रति प्रस्थानम् ॥ 1 ॥
वैशम्पायन उवाच ।
ततः प्रभाते राजा स धृतराष्ट्रोंऽबिकासुतः ।
आनाय्य पाण्डवान्वीरान्वनषासे कृतक्षणः ॥
गान्धारीसहितो धीमानभ्यनन्दद्यथाविधि ।
कार्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ॥
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः ।
वधूजनवृतो राजा निर्ययौ भवनात्ततः ॥
ततः स्त्रियः कौरवपाण्डवानां
याञ्चापराः कौरवराजवंश्याः ।
तासां नादः प्रादुरासीत्तदानीं
वैचित्रिवीर्ये नृपतौ प्रयाते ॥
ततो लाजैः सुमनोभिश्च राजा
विचित्राभिस्तद्गृहं पूजयित्वा ।
संयोज्याश्वैर्भृत्यवर्गं च सर्वं
ततः समुत्सृज्य ययौ नरेन्द्रः ॥
ततो राजा प्राञ्जलिर्वेपमानो
युधिष्ठिरः सस्वरं बाष्पकण्ठः ।
विनद्योच्चैर्गां महाराज साधो
क्व यास्यसीत्यपतत्ताति भूमौ ॥
तथाऽर्जुनस्तीव्रदुःखाभितप्तो
मुहुर्मुहुर्निः श्वसन्भारताग्र्यः ।
युधिष्ठिरं मैवमित्येवमुक्त्वा
निगृह्याथो दीनतरो बभूव ॥
वृकोदरः फल्गुनश्चैव वीरौ
माद्रीपुत्रौ विदुरः संजयश्च ।
वैश्यापुत्रः सहितो गौतमेन
धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ॥
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं
स्कन्धासक्तं हस्तमथोद्वहन्ती ।
राजा गान्धार्याः स्कन्धदेशेऽवसज्य
पाणिं ययौ धृतराष्ट्रः प्रतीतः ॥
तथा कृष्णा द्रौपदी यादवी च
बालापत्या चोत्तरा कौरवी च ।
चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः
सार्धं राज्ञा प्रस्थितास्ता वधूभिः ॥
तासां नादो रुदतीनां तदाऽऽसी-
द्राजन्दुःखात्कुररीणामिवोच्चैः ।
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां
विट्शूद्राणां चैव भार्याः समन्तात् ॥
तन्निर्याणे दुःखितः पौरवर्गो
गजाह्वये चैव बभूव राजन् ।
यथापूर्वं गच्छतां पाण्डवानां
द्यूते राजन्कौरवाणां सभायाम् ॥
या नापश्यच्चन्द्रमा नैव सूर्यो
रामाः काश्चित्ताः स्म तस्मिन्नरेन्द्रे ।
महावनं गच्छति कौरवेन्द्रे
शोकेनार्ता राजमार्गं प्रपेदुः ॥ ॥
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षोडशोऽध्यायः ॥ 16 ॥
7-16-9 कुन्ती गान्धारीं अनयदिति शेषः । किंभूता । अर्थाद्गान्धार्या हस्तं स्कन्धासक्तं उद्वहन्ती । कुन्ती गान्धारीमनुभर्तृ व्रजन्तीमिति क.थ.पाठः ॥
श्रीः