अध्यायः 019

अथाश्रमवासपर्व ॥ 1 ॥

कुन्त्या कृच्छ्रेण प्रतिनिवर्तितैर्युधिष्ठिरादिभिः कृच्छ्रात्पुनर्नगरं प्रत्यागमनम् ॥ 1 ॥ धृताष्ट्रेण विदुरादिभिः सह वनमेत्य गङ्गातीरे सन्ध्योपास्त्यादिना रात्रियापनम् ॥ 2 ॥

वैशम्पायन उवाच ।

कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम ।
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सह भारत ॥
ततः शब्दो महानेव सर्वेषामभवत्तदा ।
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथा गताम् ॥
प्रदक्षिणमथावृत्त्य राजानं पाण्डवास्तदा ।
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥
ततोऽब्रवीन्महातेजा धृतराष्ट्रोंऽबिकासुतः ।
गान्धारीं विदुरं चैव समाभाष्यावगृह्य च ॥
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् ।
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥
पुत्रैश्वर्यं महदिदमपास्य च महाफलम् ।
काऽनुगच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥
राज्यस्थया तपस्तप्तुं कर्तुं दानव्रतं महत् ।
अनया शक्यमेवाद्य श्रूयतां च वचो मम ॥
गान्धारि परितुष्टोस्मि वध्वाः शुश्रूषणेन वै ।
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह ।
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥
न च सा वनवासाय देवी कृतमतिं तदा ।
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥
तस्यास्तां तु स्थितिं ज्ञात्वा व्यवसायं कुरुस्त्रियः ।
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥
उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च ।
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥
पाण्डवाश्चातिदीनास्ते दुःखशोकपरायणाः ।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥
तदहृष्टमनानन्दं गतोत्सवमिवाभवत् ।
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः ।
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् ।
ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः । व्यराजन्त द्विजश्रेष्ठैस्तत्रतत्र तपोवने ।
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥
स राजाऽग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा ।
सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥
विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः ।
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥
गान्धार्याः सन्निकर्षे तु निषसाद कुशे सुखम् ।
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥
तेषां संश्रवणे चापि निषेदुर्विदुरादयः ।
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥
प्राधीतद्विजमुख्या सा संप्रज्वलितपावका ।
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी ॥
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः । हुत्वाऽग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि ।
शोचतां वदतां चापि पौरजानपदैर्जनैः ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकर्वणि आश्रमवासपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥

श्रीः