अध्यायः 021

अथाश्रमवासपर्व ॥ 1 ॥

नारपर्वतादिभिर्धृतराष्ट्रादिदिदृक्ष्या शतयूपाश्रमं प्रत्यागमनम् ॥ 1 ॥ नारदेन धृताराष्ट्रंप्रति तत्तपोवनस्यि सहस्रचि त्यादिराजर्षीणां स्वर्गप्रापकत्वमहिमोक्तिपूर्वकं विदुरादिभिः सह तस्यापि भविष्यत्सिद्धिप्रदत्वकथनम् ॥ 2 ॥

वैशम्पायन उवाच ।

ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः ।
नारदः पर्वतश्चैव देवलश्च महातपाः ॥
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः ।
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ॥
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि ।
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ॥
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः ।
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ॥
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्ततः ।
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ॥
नारद उवाच ।
पुरा प्रजापतिसमो राजाऽऽसीदकुतोभयः ।
सहस्रचित्यि इत्युक्तः शतयूपपितामहः ॥
स पुत्रे राज्यमासज्ज्यि ज्येष्ठे परमधार्मिके ।
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ॥
स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः ।
पुरंदरस्य संस्थानं प्रतिपेदे महाद्युतिः ॥
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया ।
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः ॥
तथा शैलालयो राजा भगत्तपितामहः ।
तपोबलेनैव नृपो महेन्द्रसदनं गतः ॥
तथा पृषध्रो राजाऽऽसीद्राजन्वज्रधरोपमः ।
स चापि तपसा लेभे नाकपृष्ठमितो गतः ॥
अस्मिन्नरण्ये नृपते मांधातुरपि चात्मजः ।
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ॥
भार्या समभवद्यस्य नर्मदा सरितां वरा ।
सोस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ॥
शशलोमा च राजाऽऽसीद्राजन्परमधार्मिकः ।
सम्यगस्मिन्वने तप्त्वा ततो दिवमवाप्तवान् ॥
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् ।
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ॥
त्वं चापि राजशार्दूल तपसोन्ते श्रिया वृतः । गान्धारीसहितो गन्ता गतिं तेषां महात्मनां
पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः ।
त्वां सदैव महाराज श्रेयसा स च योक्ष्यति ॥
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी ।
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ॥
युधिष्ठिरस्य जननी स हि धर्मः सनातनः ।
वयमेतत्प्रपश्यामो नृपते दिव्यवक्षुषाः ॥
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् ।
संजयस्तदनुध्यानादितः स्वर्गमवाप्स्यति ॥
वैशम्पायन उवाच ।
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सार्धं पत्न्या प्रीतिमान्सम्बभूव ।
विद्वान्वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय ॥
ततः सर्वे नारदं विप्रसङ्घाः सम्पूजयामासुरतीव राजन् ।
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनःपुनः सम्प्रहृष्टास्तदानीम् ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि एकविंशोऽध्यायः ॥ 21 ॥

7-21-11 तदा प्रवृद्धो राजसीदिति क.थ.पाठः ॥

श्रीः