अध्यायः 024

अथाश्रमवासपर्व ॥ 1 ॥

युधिष्ठिरेण वनस्थकुन्तीधृतराष्ट्रादिदिदृक्षया द्रौपद्यादिभिः पौरैर्भ्रातृभिश्च सह वनंप्रति प्रस्थानम् ॥ 1 ॥

युधिष्ठिरेण वनस्थकुन्तीधृतराष्ट्रादिदिदृक्ष्या द्रौपद्यादिभिः पौरैर्भ्रातृभिश्च सह वनंप्रति प्रस्थानम् ॥ 1 ॥

वैशम्पायन उवाच ।
एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः ।
स्मरन्तो मातरं वीरा बभूवुर्भशदुःखिताः ॥
ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् ।
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥
प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन ।
सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन् ॥
ते स्म वीरा दुराधर्षा गांभीर्ये सागरोपमाः ।
शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् ॥
अचिन्तयंश्च जननीं ततस्ते पाण्डुनन्दनाः ।
कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा ॥
कथं च स महीपालो हतपुत्रो निराश्रयः ।
पत्न्या सह वसत्येको वने श्वापदसेविते ॥
सा च देवी महाभागा गान्धारी हतबान्धवा ।
पतिमन्धं कथं वृद्धमन्वेति विजने वने ॥
एवं तेषां कथयतामौत्सुक्यमभवत्तदा ।
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया ॥
सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् । अहो मे भवतो दृष्टं हृदयं गमनं प्रति ।
न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा ।
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ॥
दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् ।
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् ॥
प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् ।
कदानुजननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ॥
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ ।
कुन्ती राजसुता यत्र वसत्यसुखिता वने ॥
सहदेववचः श्रुत्वा द्रौपदी योषितां वरा । उवाच देवी राजानमभिपूज्याभिनन्द्य च ।
कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा ।
जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप ॥
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः ।
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि ॥
अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् ।
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वसुरस्च च ॥
इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ ।
सेनाध्यक्षान्समानाय्य सर्वानिदमुवाच ह ॥
निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् ।
द्रक्ष्यामि वनसंस्थं च धृताष्ट्रं महीपतिम् ॥
स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे ।
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः ॥
शकटापणवेशाश्च कोशः शिल्पिन एव च ।
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ॥
यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् ।
अनावृतः सुविहितः स च यातु सुरक्षितः ॥
सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् ।
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ॥
प्रयाणं घुष्यतां चैव श्वोभूत इति माचिरम् । क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च ।
एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः ।
श्वोभूते निर्ययौ राजन्सस्त्रीवृद्धपुरःसरः ॥
स बहिर्दिवसानेव जनौघं परिपालयन् ।
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥

7-24-17 अप्रपादस्थितं प्रयाणार्थं पुरस्कृतेनैव पादेन स्थितम् । अत्यन्तमुत्सुकमित्यर्थः ॥

श्रीः