अध्यायः 026

अथाश्रमवासपर्व ॥ 1 ॥

युधिष्ठिरादिभिः शतयूपाश्रमे धृतराष्ट्रादीनुपेत्य स्वस्वनामकीर्तनपूर्वकं तत्पादाभिवादनम् ॥ 1 ॥ धृतराष्ट्रेण स्वावा स्यादर्शनेन शोचतां तेषां समाश्वासनम् ॥ 2 ॥

वैशम्पायन उवाच ।

ततस्ते पाण्डवा दूरादवतीर्य पदातयः ।
अभिजग्मुर्नरपतेराश्रमं विनयानताः ॥
स च योधजनः सर्वो ये च राष्ट्रनिवासिनः ।
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ॥
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः ।
शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ॥
ततस्तत्र समाजग्मुस्तापसा नियतव्रताः ।
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ॥
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् ।
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ॥
ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम् ।
पुष्पाणामुदकुंभस्य चार्थे गत इति प्रभो ॥
तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा ।
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः ॥
ततस्ते सत्वरा जग्मुः वितुर्दर्शनकाङ्क्षिणः ।
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा ॥
सुस्वरं रुरुदे धीमान्मातुः पादावुपस्पृशन् ।
सा च बाष्पाकुलमुखी ददर्शक दयितं सुतम् ॥
बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् ।
गान्धार्याः कथयामास सहद्रेवमुपस्थितम् ॥
अनन्तरं च राजानं भीमसेनमथार्जुनम् ।
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ॥
सा ह्यग्रे गच्छति तयोर्दपत्योर्हतपुत्रयोः । कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि ।
`तयोस्तु पादयो राजन्न्यपतन्हतपुत्रयोः ॥'
राजा तान्स्वरयोगेन स्पर्शेन च महामनाः ।
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ॥
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् ।
उपतस्थुर्महात्मानो मातरं च यथाविधि ॥
सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा ।
पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः ॥
तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा ।
पौरजानपदाश्चैव ददृशुस्तं जनाधिपम् ॥
निवेदयामास तदा जनं तन्नामगोत्रतः ।
युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत् ॥
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः ।
राजाऽऽत्मानं गृहगतं पुरेवि गजसाह्वये ॥
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः ।
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ॥
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् ।
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

श्रीः