अध्यायः 033
अथ पुत्रदर्शनपर्व ॥ 2 ॥
व्यासेन गान्धारींप्रति समरहतानां दुर्योधनादीनां सर्वेषां रात्रौ प्रदर्शनप्रतिज्ञानपूर्वकं धृतराष्ट्रादीनां विशिष्य गन्धर्वाद्यंशत्वकथनम् ॥ 1 ॥ धृतराष्ट्रादिभिर्व्यासवचनाद्गङ्गातीरमेत्य बन्धुदर्शनौत्कण्ठ्येन कृच्छ्रादहर्यापनम् । 2 ॥
व्यास उवाच ।
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्स्वकान्गणान् ।
वधूश्च पतिभिः सार्धं निशि सुप्तोस्थिता इव ॥
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी ।
द्रौपदी पञ्चपुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ॥
पूर्वमेवैष हृदये व्यवसायोऽभकवन्मम ।
यदाऽस्मि चोदितो राज्ञा भवत्या पृथयैव च ॥
न ते शोच्या महात्मानः सर्व एव नरर्षभाः ।
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ॥
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते ।
अवतेरुस्ततः सर्वे देवा भागैर्महीतलम् ॥
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः ।
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोपि च ॥
देवाश्च दानवाश्चैव तथा देवर्षयोऽमलाः ।
ते एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ॥
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः ।
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ॥
पाण्डुं मरुद्गणाद्विद्धि विशिष्टतममच्युतम् ।
धर्मस्यांशोऽभवत्क्षत्ता राजा चैव युधिष्ठिरः ॥
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं नृपम् ।
दुःशासनादीन्विद्धि त्वं राक्षसान्शुभदर्शने ॥
मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम् ।
विद्धिं त्वं तु नरमृषिमिमं पार्थं धनंजयम् ।
नारायणं हृषीकेशमश्विनौ यमजौ तथा ॥
द्विधा कृत्वाऽऽत्मनो देहमादित्यं तपतां वरम् ।
लोकांश्च तापयानं वै कर्णं विद्धि पृथासुतम् ॥
यः स वैरार्थमुद्भूतः संघर्षजननस्कतथा ।
तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने ॥
यश्च पाण्डवदायादो हतः षङ्मिर्महारथैः ।
स सोम इह सौभद्रो योगादेवाभवद्द्विधा ॥
द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात् ।
अग्रेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ॥
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् ।
गाङ्गेयो वसुवीर्येण देवो मानुषतां गतः ॥
एवमेते महाप्रज्ञे देवा मानुष्यमेत्य हि ।
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ॥
यच्च वै हृदि सर्वेषां दुःखमेतच्चिरं स्थितम् ।
तदद्य व्यपनेष्यामि परलोककृताद्भयात् ॥
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति ।
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्तत्र संयुगे ॥
वैशम्पायन उवाच ।
इति व्यासस्य वचनं श्रुत्वा सर्वा जनस्तदा ।
महता सिंहनादेन गङ्गामभिमुखो ययौ ॥
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः ।
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ॥
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः ।
निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ॥
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः ।
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ॥
जगाम तदहस्चापि तेषां वर्षशतं यथा ।
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ॥
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः ।
ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ॥ ॥
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥
श्रीः