अध्यायः 036
अथ पुत्रदर्शनपर्व ॥ 2 ॥
त्यक्तदेहानामपि कुरुपाण्डवपक्षीयाणां कथं पुनरागमनमिति जनमेजयप्रश्नस्य सोपपत्तिकमुत्तरदानम् ॥ 1 ॥
सौतिरुवाच ।
एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः ।
पितामहानां सर्वेषां गमनागमनं तदा ॥
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति ।
कथं न त्यक्तदेहानां पुनस्तद्रूपदर्शनम् ॥
इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् ।
प्रोवाच वदतांश्रेष्ठस्तं नृपं जनमेजयम् ॥
वैशम्पायन उवाच ।
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः ।
कर्मजानि शरीराणि शरीराकृतयस्तथा ॥
महाभूतानि नित्यानि भूताधिपतिसंश्रयात् ।
तेषां च नित्यसंवासो न विनाशो वियुज्यताम् ॥
अनाशया कृतं कर्म तस्य चेष्टः फलागमः ।
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते ॥
अविनाश्यस्तथा नित्यं क्षेत्रज्ञ इति निश्चयः ।
भूतानामात्मभावो यो ध्रुवोसौ संविजानताम् ॥
यावन्न क्षीयते कर्म तावत्तस्य स्वरूपता ।
क्षीणकर्मा नरो लोके रूपान्यत्वमुपाश्नुते ॥
नानाभूतास्तथैकत्वं शरीरं प्राप्य संहताः ।
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् ॥
अश्वमेधश्रुतिश्चेयमश्वसंज्ञपनं प्रति ।
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः ॥
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव ।
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे ॥
सुकृतो यत्र यज्ञस्ते तत्र देवा हितास्तव ।
यदा समन्विता देवाः पशूनां गमनेश्वराः ॥
गमिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्त्युत ।
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि पूरुषः ॥
अस्य नाशं समायोगं यः पश्यति वृथामतिः ।
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः ॥
वियोगे दोषदर्शी यः संयोगं स विसर्जयेत् ।
असङ्गे सङ्गमो नास्ति दुःखं भावि वियोगजम ॥
परापरज्ञस्त्वपरो नाभिमानादुदीक्षितः ।
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते ॥
अदर्शनादापतितः पुनश्चादर्शनं गतः ।
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता ॥
येनयेन शरीरेणि करोत्ययमनीश्वरः ।
तेनतेन शरीरेण तदवश्यमुपाश्नुते ।
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान् ॥ ॥
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥
7-36-10 संज्ञपनं मारणम् ॥ 7-36-11 नासौ मानादहङ्कारान्न च वेति विरागतामिति क.पाठः ॥
श्रीः