अध्यायः 001
(अनुक्रमणिकापर्व ॥ 1 ॥)
आदौ मङ्गलाचरणं ॥ 1 ॥ नैमिशारण्ये दीर्घसत्रे शौनकादीन्प्रति
सौतेरागमनम् ॥ 2 ॥ तत्र शौनकादिभिः सौतिं प्रति भारतकथनचोदना ॥ 3 ॥ सौतिना
श्रीमन्नारायणनमस्कारपूर्वकं व्यासस्य भारतनिर्माणकथनम् ॥ 4 ॥
पर्वानुक्रमणिका ॥ 5 ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव(व्यासं) ततो जयमुदीरयेत् ॥
`नारायणं सुरगुरुं जगदेकनाथं'
भक्तप्रियं सकललोकनमस्कृतं च ।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं
वन्दे भवघ्नममरासुरसिद्धवन्द्यम्' ॥
`नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्' ॥
ॐ नमो भगवते वासुदेवाय ।
ॐ नमः पितामहाय । ॐ नमः प्रजापतिभ्यः ।
ॐ नमः कृष्णद्वैपायनाय ।
ॐ नमः सर्वविघ्नविनायकेभ्यः ॥
रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको
नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे
सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।
विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥
तमाश्रममनुप्राप्य नैमिशारण्यवासिनः ।
`उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात्
वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः ।
वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः
तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः ।
चित्रा श्रोतुं कथास्तत्र परिव्रुस्तपस्विनः ॥
अभिवाद्य मुनींस्तांस्तु सर्वानेव कुताञ्जलिः ।
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः ॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।
निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः ॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च ।
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥
कुत आगम्यते सौते क्वचायं विहृतस्त्वया ।
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः ।
वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम् ॥
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् ।
सौतिरुवाच ।
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ॥
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ।
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः
कथिताश्चापि विधिवद्या वैशंपायनेन वै ।
श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः ॥
वहूनि संपरिक्रम्य तीर्थान्यायतनानि च ।
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ॥
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।
कुरूणां पाण्डवानां च सर्वेषां चहीक्षिताम् ॥
दिदृक्षुंरागतस्तस्मात्समीपं भावतामिह ।
आयुष्मन्तः सर्व एव ब्रह्मभाता हि मे मताः ॥
अस्मिन्यज्ञे महाभङ्गाः सूर्यपावकवर्चसः ॥
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ।
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः
पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः ।
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥
ऋषय ऊचुः ।
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् ।
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् ।
यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया ॥
वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः ।
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम् ॥
सौतिरुवाच ।
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥
असच्च सच्चैव च यद्विश्वं सदसतः परम्
परावराणां स्रष्टारं पुराणं परमव्ययम् ॥
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥
महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः ।
प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः ॥
`नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥
सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम् ।
न तथा फलद सूते नारायणकथा यथा ॥
नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्' ॥
आचख्युः कवयः केचित्संप्रत्याचक्षते परे ।
आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि ॥
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ।
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यधनुषैः ।
छन्दोवृत्तैश्च विविधैरन्वितं विदुषांप्रियम् ॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥
`पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये ।
विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ॥
शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः
भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् ॥
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः ॥
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते ।
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम् ॥
युगस्यादिनिमित्तं तन्महद्दिव्यं प्रचक्षत ।
व्यस्मिंस्तच्छ्रूयते सत्यंज्योतिर्ब्रह्म सनातनम् ॥
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां मतम् ।
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥
यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्तवै ।
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥
पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदु ।
विश्वेदेवास्तथाऽऽदित्या वसवोऽथाश्विनावपि ॥
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः ॥
महर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
आतो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तया ॥
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् ।
यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥
यदिदं दृश्यते किंचिद्बूतं स्थावरजङ्गमम् ।
पुनःसंक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥
एवमेतदनाद्यन्तं भूतसंघातकारकम् ।
अनादिनिधनं लोके चक्रं संपरिवर्तते ॥
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशच्च देवनां सृष्टिः संक्षेपलक्षणा ॥
दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः ।
सविता स ऋचीकोऽर्को भानुराशावहो रविः ॥
पुत्रा विवस्वतः सर्वे मनुस्तेषां तथाऽवरः ।
देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः ॥
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः ।
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च ॥
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः ।
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥
ययातीक्ष्वाकृवंशश्च राजर्षीणां च सर्वशः ।
संभूता बहवो वंशा भूतसर्गाः सुविस्तराः ॥
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च ॥
धर्मार्थकामयुक्तानि शास्त्राणि विविधानि च ।
लोकयात्राविधान च सर्व तद्दृष्टवानृषिः ॥
`नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः ।'
इतिहासाः सहव्याख्या विविधाश्रुतयोऽपि च ॥
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ।
`संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम् ॥'
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥
मन्वादि भारतं केचिदास्तीकादि तथाऽपरे ।
तथोपरिचराद्यन्ये विप्राः सम्यगधीयिरे ॥
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः ।
व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे ॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीत्सुतः ॥
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च ।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् ।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः ।
शशास शिष्यमासीनं वैशंपायनमन्तिके ॥
स सदस्यैः सहासीनं श्रावयामास भारतम् ।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥
विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम् ।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोब्रवीत् ॥
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् ।
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम् ।
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् ।
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः ।
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ॥
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः ।
कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत् ॥
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च ।
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् ॥
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया ।
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ॥
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः ॥
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने ।
परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत् ॥
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना ।
निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् ।
कृतं मयेदं भगवन्काव्यं परमपूजितम् ॥
ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया ।
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥
इतिहासपुरापानामुन्मेषं निमिषं च यत् ।
भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम् ॥
जरामृत्युभयव्याधिभावाभावविनिश्चयः ।
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् ॥
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः ।
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ॥
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह ।
ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च ॥
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा ।
इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम् ॥
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् ।
नदीनां पर्वतानां च वनानां सागरस्य च ॥
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् ।
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः ॥
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम् ।
परं न लेखकः कश्चिदेतस्य भुवि विद्यते ॥
ब्रह्मोवाच ।
तपोविशिष्टदपि वै वसिष्ठान्मुनिपुंगवात् ।
मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात् ॥
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् ।
त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति ॥
अस्य काव्यस्य कवयो न समर्था विशेषणे ।
विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥
`जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत् ।
यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत् ॥
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः ।
ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः' ॥
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः ।
त्वया भारतसूर्येण नृणां विनिहतं तमः ॥
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना ।
नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम् ॥
इतिहासप्रदीपेन मोहावरणघातिना ।
लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम् ॥
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् ।
संभवस्कन्धविस्तारः सभापर्वविटङ्कवान् ॥
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान् ।
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् ॥
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः ।
स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः ॥
अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः ।
मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः ॥
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति ।
पर्जन्यइव भूतानामक्षयो भारद्रुमः ॥
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने ।
सौतिरुवाच ।
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् ।
भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह ॥
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः ॥
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः ।
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः ॥
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ ।
लेखको भारतस्यास्य भव त्वं गणनायक ॥
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् ।
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् ।
ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः ॥
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् ।
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च ।
अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा ॥
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने ।
भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च ॥
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन् ।
तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि ॥
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम् ।
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि ॥
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ।
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ॥
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभु
षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ।
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् ॥
पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश ।
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥
नारदोऽश्रावयद्देवानसितो देवलः पितृन् ।
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥
`वैशंपायनविप्रर्षिः श्रावयामास पार्थिवम् ।
पारिक्षितं महात्मानं नाम्ना तु जनमेजयम्' ॥
अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान् ।
शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः ॥
एकं शतसहस्रं तु मयोक्तं वै निबोधत ॥
दुर्योधनो मन्युमयो महाद्रुमः
कर्णः स्कन्धः शकुनिस्तस्य शाखाः ।
दुश्शासनः पुष्पफले समृद्धे
मूलं राजा धृतराष्ट्रोऽमनीषि ।
युधिष्ठिरे धर्ममयो महाद्रुमः
स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीसुतौ पुष्पफले समृद्धे
मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च ।
अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा ॥
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम् ।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।
धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥
`ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा ।
धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च ।
जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः ।'
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ॥
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ।
`तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु ॥
माद्र्या तु सह संगम्य ऋषिशापप्रभावतः ।
मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ॥'
ऋषिभिश्च समानीता धार्तराष्ट्रान्प्रति स्वयम् ।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा ।
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥
आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।
यदा चिरमृतः पाण्डुः कथं तस्येतदि चापरे ॥
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् ।
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन् ।
अन्तर्हितानां भूतानां निःस्वनस्तुमुलीऽभवत् ॥
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः ।
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः ।
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥
तेऽधीत्य निखिलान्वेदाञ्शास्त्राणि विविधानि च ।
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च ।
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् ।
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् ।
आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम् ॥
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः ।
युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥
दुर्योधनं समागच्छन्नर्हणानि ततस्ततः ।
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥
विचित्राणि च वासांसि प्रावारावरणानि च ।
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ॥
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ।
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥
विमानप्रतिमां तत्र मयेन सुकृतां सभाम् ।
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥
तत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् ।
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च ।
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।
द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत ॥
निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम् ।
विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम् ॥
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् ।
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ॥
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ।
शृणु संजय सर्वं मे नचासूयितुमर्हसि ॥
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
न विग्रहे मम मतिर्न च प्रीये कुलक्षये ॥
न मे विशेषः पुत्रेषु स्वेषु पाम्डुसुतेषु वा ।
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ॥
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ।
तच्चावहसनं प्राप्य सभारोहणदर्शने ॥
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे ।
निरुत्साहश्च संप्राप्तुं सुश्रियं क्षत्रियोऽपि सन् ॥
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ।
तत्र यद्यद्यथा ज्ञातं मयां संजय तच्छृणु ॥
श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः ।
ततो ज्ञास्यसि मां सौते प्रज्ञाटचक्षुषमित्युत ॥
यदाऽश्रौषं धनुरायम्य चित्रं
विद्धं लक्ष्यं पातितं वै पृथिव्याम् ।
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्वारकायां सुभद्रां
प्रसह्योढां माधवीमर्जुनेन ।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं देवराजं प्रवृष्टं
शरैर्दिव्यैर्वारितं चार्जुनेन ।
अग्निं तथा तर्पितं खाण्डवे च
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं जातुषाद्वेश्मनस्ता-
न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान् ।
युक्तं चैषां विदुरं स्वार्थसिद्ध्यै
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये
लक्ष्यं भित्त्वा निर्जितामर्जुनेन ।
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां-
स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं मागधानां वरिष्ठं
जरासन्धं क्ष्वमध्ये ज्वलन्तम् ।
दोर्भ्यां हतं भीमसेनेन गत्वा
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं दिग्जये पाण्डुपुत्रै-
र्वशीकृतान्भूमिपालान्प्रसह्य ।
महाक्रतुं राजसूयं कृतं च
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं
सभां नीतां दुःखितामेकवस्त्राम् ।
रजस्वलां नाथवतीमनाथव-
त्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं वाससां तत्र राशिं
समाक्षिपत्कितवो मन्दबुद्धिः ।
दुःशासनो गतवान्नैवं चान्तं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं हृतराज्यं युधिष्ठिरं
पराजितं सौबलेनाक्षवत्याम् ।
अन्वागतं भ्रातृभिरप्रमेयै-
स्तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं विविधास्तत्र चेष्टा
धर्मात्मनां प्रस्थितानां वनाय ।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं स्नातकानां सहस्रै-
रन्वागतं धर्मराजं वनस्थम् ।
भिक्षाभुजां ब्राह्मणानां महात्मनां
तदा नाशंसे विजयाय संजय ॥
`यदाऽश्रौषं वनवासेन पार्था-
न्समागतान्महर्षिभिः पुराणैः ।
उपास्यमानान्सगणैर्जातसख्यां-
स्तदा नाशंसे विजयाय संजर्य ॥'
यदाश्रौषं त्रिदिवस्थं धनंजयं
शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् ।
अधीयानं शंसितं सत्यसन्धं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रोषं कालकेयास्ततस्ते
पौलोमानो वरदानाच्च दृप्ताः ।
देवैरजेया निर्जिताश्चार्जुनेन
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषमसुराणां वधार्थे
किरीटिनं यान्तममित्रकर्शनम् ।
कृतार्थं चाप्यागतं शक्रलोका-
त्तदा नाशंसे विजयाय संजय ॥
`यदाऽश्रौषं तीर्थयात्राप्रवृत्तं
पाण्डोः सुतं सहितं लोमशेन ।
बृहदश्वादक्षहृदयं च प्राप्तं
तदा नाशंसे विजयाय संजय ॥'
यदाऽश्रौषं वैश्रवणेन सार्धं
समागतं भीमन्यांश्च पार्थान् ।
तस्मिन्देशे मानुषाणामगम्ये
तदा नाशंसि विजयाय संजया ॥
यदाऽश्रौषं घोषयात्रागतानां
बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन ।
स्वेषां सुतानां कर्णबुद्धौ रतानां
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं यक्षरूपेण धर्मं
समागतं धर्मराजेन सूत ।
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक्
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं न विदुर्मामकास्तान्
प्रच्छन्नरूपान्वसतः पाण्डवेयान् ।
विराटराष्ट्रे सह कृष्णया च
तदा नाशंसे विजयाय संजय ॥
`यदाऽश्रौषं कीचकानां वरिष्ठं
निषूदितं भ्रातृशतेन सार्धम् ।
द्रौपद्यर्थे भीमसेनेन सङ्ख्ये
तदा नाशंसे विजयाय संजय ॥'
यदाऽश्रौषं मामकानां वरिष्ठा-
न्धनंजयेनैकरथेन भग्नान् ।
विराटराष्ट्रे वसता महात्मना
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा
सुतां दत्तामुत्तरामर्जुनाय ।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं निर्जितस्याधनस्य
प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।
अक्षौहिणीः सप्त युधिष्ठिरस्य
तदा नाशंसे विजयाय संजय ॥ 196 ॥
यदाऽश्रौषं माधवं वासुदेवं
सर्वात्मना पाण्डवार्थे निविष्टम् ।
यस्येमां गां विक्रममेकमाहु-
स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं नरनारायणौ तौ
कृष्णार्जुनौ वदतो नारदस्य ।
अहं द्रष्टा ब्रह्मलोके च सम्यक्
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं लोकहिताय कृष्णं
शमार्थिनमुपयातं कुरूणाम् ।
शमं कुर्वाणमकृतार्थं च यातं
तदा नाशंसे विजयाय संजय ॥ 199 ॥
यदाऽश्रौषं कर्णदुर्योधनाभ्यां
बुद्धिं कृतां निग्रहे केशवस्य ।
तं चात्मानं बहुधा दर्शयानं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं वासुदेवे प्रयाते
रथस्यैकामग्रतस्तिष्ठमानाम् ।
आर्तां पृथां सान्त्वितां केशवेन
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं मन्त्रिणं वासुदेवं
तथा भीष्मं शान्तनवं च तेषाम् ।
भारद्वाजं चाशिषोऽनुब्रुवाणं
तदा नाशंसे विजयाय संजय ॥
यदा कर्णो भीष्ममुवाच वाक्यं
नाहं योत्स्ये युध्यमाने त्वयीति ।
हित्वा सेनामपचक्राम चापि
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं वासुदेवार्जुनौ तौ
तथा धनुर्गाण्डिवमप्रमेयम् ।
त्रीण्युग्रवीर्याणि समागतानि
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कश्ललेनाभिपन्ने
रथोपस्थे सीदमानेऽर्जुने वै ।
कृष्णं लोकान्दर्शयानं शरीरे
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं भीष्ममित्रकर्शनं
निघ्नन्तमाजावयुतं रथानाम् ।
नैषां कश्चिद्वध्यते ख्यातरूप-
स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं चापगेयेन सङ्ख्ये
स्वयं मृत्युं विहितं धार्मिकेण ।
तच्चाकार्षुः पाण्डवेयाः प्रहृष्टा-
स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं भीष्ममत्यन्तशूरं
हतं पार्थेनाहवेष्वप्रधृष्यम् ।
शिखण्डिनं पुरतः स्थापयित्वा
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं शरतल्पे शयानं
वृद्धं वीरं सादितं चित्रपुङ्खैः ।
भीष्मं कृत्वा सोमकानल्पशेषां-
स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं शान्तनवे शयाने
पानीयार्थे चोदितेनार्जुनेन ।
भूमिं भित्त्वा तर्पितं तत्र भीष्मं
तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं शुक्रसूर्यौ च युक्तौ
कौन्तेयानामनुलोमौ जयाय ।
नित्यं चास्माञ्श्वापदा भीषयन्ति
तदा नाशंसे विजयाय संजय ॥
यदा द्रोणो विविधानस्त्रमार्गा-
न्निदर्शयन्समरे चित्रयोधी ।
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति
तदा नाशंसे विजयायं संजय ॥
यदाऽश्रौषं चास्मदीयान्महारथा-
न्व्यवस्थितानर्जुनस्यान्तकाय ।
संशप्तकान्निहतानर्जुनेन
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं व्यूहमभेद्यमन्यै-
र्भारद्वाजेनात्तशस्त्रेण गुप्तम् ।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं
तदा नाशंसे विजयाय संजय ॥
यदाऽभिमन्युं परिवार्य बालं
सर्वे हत्त्वा हृष्टरूपा बभूवुः ।
महारथाः पार्थमशक्नुवन्त-
स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषमभिमन्युं निहत्य
हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् ।
क्रोधादुक्तं सैन्धवे चार्जुनेन
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां
प्रतिज्ञातां तद्वधायार्जुनेन ।
सत्यां तीर्णां शत्रुमध्ये च तेन
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं श्रान्तहये धनंजये
मुक्त्वा हयान्पाययित्वोपवृत्तान् ।
पुनर्युक्त्वा वासुदेवं प्रयातं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं वाहनेष्वक्षमेषु
रथोपस्थे तिष्ठता पाण्डवेन ।
सर्वान्योधान्वारितानर्जुनेन
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं नागबलैः सुदुःसहं
द्रोणानीकं युयुधानं प्रमथ्य ।
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कर्णमासाद्य मुक्तं
वधाद्भीमं कुत्सयित्वा वचोभिः ।
धनुष्कोट्याऽऽतुद्य कर्णेन वीरं
तदा नाशंसे विजयाय संजय ॥
यदा द्रोणः कृतवर्मा कृपश्च
कर्णो द्रौणिर्मद्रराजश्च शूरः ।
अमर्षयन्सैन्धवं वध्यमानं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं देवराजेन दत्तां
दिव्यां शक्तिं व्यंसितां माधवेन ।
घटोत्कचे राक्षसे घोररूपे
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कर्णघटोत्कचाभ्यां
युद्धे मुक्तां सूतपुत्रेण शक्तिम् ।
यया वध्यः समरे सव्यसाची
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रोणमाचार्यमेकं
धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् ।
रथोपस्थे प्रायगतं विशस्तं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रौणिना द्वैरथस्थं
माद्रीसुतं नकुलं लोकमध्ये ।
समं युद्धे मण्डलेभ्यश्चरन्तं
तदा नाशंसे विजयाय संजय ॥
यदा द्रोणे निहते द्रोणपुत्रो
नारायणं दिव्यमस्त्रं विकुर्वन् ।
नैषामन्तं गतवान्पाण्डवानां
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं भीमसेनेन पीतं
रक्तं भ्रातुर्युधि दुःशासनस्य ।
निवारितं नान्यतमेन भीमं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कर्णमत्यन्तशूरं
हतं पार्थेनाहवेष्वप्रधृष्यम् ।
तस्मिन्भ्रातृणां विग्रहे देवगुह्ये
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रोणपुत्रं च शूरं
दुःशासनं कृतवर्माणमुग्रम् ।
युधिष्टिरं धर्मराजं जयन्तं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं निहतं मद्रराजं
रणे शूरं धर्मराजेन सूत ।
सदा सङ्ग्रामे स्प्रधते यस्तु कृष्णं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कलहद्यूतमूलं
मायाबलं सौबलं पाण्डवेन ।
हतं सङ्ग्रामे सहदेवेन पापं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं श्रान्तमेकं शयानं
ह्रदं गत्वा स्तम्भयित्वा तदम्भः ।
दुर्योधनं विरथं भग्नशक्तिं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं पाण्डवांस्तिष्ठमानान्
गत्वा ह्रदे वासुदेवेन सार्धम् ।
अमर्षणं धर्षयतः सुतं मे
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं विविधांश्चित्रमार्गान्
गदायुद्धे मण्डलशश्चरन्तम् ।
मिथ्या हतं वासुदेवस्य बुद्ध्या
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रोणपुत्रादिभिस्तै-
र्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान् ।
कृतं बीभत्समयशस्यं च कर्म
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं भीमसेनानुयाते-
नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम् ।
क्रुद्धेनैषीकमवधीद्येन गर्भं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन
स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम् ।
अश्वत्थाम्ना मणिरत्नं च दत्तं
तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रोणपुत्रेण गर्भे
वैराट्या वै पात्यमाने महास्त्रैः ।
संजीवयामीति हरेः प्रतिज्ञां
तदा नाशंसे विजयाय संजय ॥
द्वैपायनः केशवो द्रोणपुत्रं
परस्पेरणाभिशापैः शशाप ।
बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत
संतप्ये वै पुत्रपौत्रैश्च हीनः ॥
शोच्या गान्धारी पुत्रपौत्रैर्विहीना
तथा वध्वा पितृभिर्भ्रातृभिश्च ।
कृतं कार्यं दुष्करं पाण्डवेयैः
प्राप्तं राज्यमसपत्नं पुनस्तैः ॥
कष्टं युद्धे दश शेषाः श्रुता मे
त्रयोऽस्माकं पाण्डवानां च सप्त ।
द्व्यूना विंशतिराहताऽक्षौहिणीनां
तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम् ॥
तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम् ।
संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥
सौतिरुवाच ।
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः ।
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् ॥
धृतराष्ट्र उवाच ।
संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम् ।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥
सौतिरुवाच ।
तं तथा वादिनं दीनं विलपन्तं महीपतिम् ।
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः ॥
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ।
संजय उवाच ।
श्रुतवानसि वै राजन्महोत्साहान्महाबलान् ॥
द्वैपायनस्य वदतो नारदस्य च धीमतः ।
महत्सु राजवंशेषु गुणैः समुदितेषु च ॥
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ।
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ॥
अस्मिँल्लोके यशः प्राप्य ततः कालवशं गतान् ।
शैब्यं महारथं वीरं सृंजयं जयतां वरम् ॥
सुहोत्रं रन्तिदेवं च काक्षीवन्तमतौशिजम् ।
बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम् ॥
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ।
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ॥
रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ।
कृतवीर्यं महाभागं तथैव जनमेजयम् ॥
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।
`चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।
पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम् ॥
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।
महारथा महात्मानः सर्वैः समुदिता गुणैः ॥
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः ।
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥
विजयो वीतिहोत्रोऽह्गो भवः श्वेतो बृहद्गुरुः ।
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः ।
अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः ।
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः ॥
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥
अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः ।
महापुराणसंभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥
एते चान्ये च राजानः शतशोऽथ सहस्रशः ।
श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः ॥
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः ।
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तरः ॥
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।
माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम् ॥
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।
सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि ॥
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥
निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे ॥
भवितव्यं तथा तच्च नानुशोचितुमर्हसि ।
दैवं पुरुषकारेण को निवर्तितुमर्हति ॥
विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥
कालः सृजति भूतानि कालः संहरते प्रजाः ।
संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥
कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान् ।
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
कालः सर्वेषु भूतेषु चरत्यविधतः समः ॥
अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥
सौतिरुवाच ।
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् ।
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा ॥
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् ।
दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः ॥
लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः ।
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ॥
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः ।
भारताध्ययनं पुण्यमपि पादमधीयतः ।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः ।
कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः ॥
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् ।
यस्य दिव्यानि कर्माणि कथन्ति मनीषिणः ॥
असत्सत्सदसच्चैव यस्माद्विश्वं प्रवर्तते ।
सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥
अध्यात्मं श्रूयतें यत्र पञ्चभूतगुणात्मकम् ।
अव्यक्तादि परं यच्च स एव परिगीयते ॥
यं ध्यायन्ति सदा मुक्ता ध्यानयोगबलान्विताः ।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः ।
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥
अनुक्रमणिकाध्यायं भारतस्येममादितः ।
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥
उभे सन्ध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् ।
अनुक्रमण्या यावत्स्यादह्नारात्र्या च संचितम् ॥
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ।
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥
यथैतानीतिहासानां तथा भारतमुच्यते ।
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ॥
अक्षय्यमन्नपानं वै पितृंस्तस्योपतिष्ठते ।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम् ।
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ॥
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ।
यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ॥
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ।
एकतश्चतुरो वेदा भारतं चैतदेकतः ॥
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् ।
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा ॥
तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते ।
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् ॥
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥
तपो नकल्कोऽध्ययनं नकल्कः
स्वाभाविको वेदविधिर्नकल्कः ।
प्रसह्य वित्ताहरणं नकल्क-
स्तान्येव भावोपहतानि कल्कः ॥
इति श्रीमन्माहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि प्रथमोऽध्यायः ॥ 1 ॥ ॥
अनुक्रमणिकापर्व समाप्तम् ॥
1-1-1 श्रीलक्ष्मीनृसिंहाय नमः ॥ श्रीहयग्रीवाय नमः ॥
श्रीवेदव्यासाय नमः ॥ इह खलु भगवान्पाराशर्यः परमकारुणिको म्दमतीननुग्रहीतुं
चतुर्दशविद्यास्थानान्येकत्र दिदर्शयिषुर्महाभारताख्यमितिहासं
प्रणेष्यन्प्रारिप्सितस्य निष्प्रत्यूहारिपूरणाय प्रचयगमनाय च मङ्गलं रचयन्
शिष्यशिक्षायै लोकरूपेम निबघ्नन्नर्यात्तत्र प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयादि
दर्शयति ॥ नारायणमिति ॥ नरोत्तमं पुरुषोत्तमं नारायणं नरं देवी सरस्वतीं
(व्यासं) चैव नमस्कृत्य जयं भारताख्यमितिहासं उदीरयेत् ॥ 1-1-2
लक्षालङ्कारव्याख्यानरीत्यायमाद्यः श्लोकः ॥ 1-1-3 कतिपयकोशरीत्यायस्पद्यः ॥ 3 ॥ 1-1-5 रोमहर्षणपुत्रः रोमाणि हर्षयाञ्चके श्रोतॄणा यः स्वभाषितैः । कर्मणा
प्रथितस्तेन रोमहर्षणसंज्ञया । इति कौर्मे निरुक्तार्थनाम्नः पुत्रः । अग्रश्रवाः
उग्रस्य नृसिंहस्य श्रवः श्रवणं यस्य सः । पौराणिकः पुराणे कृतश्रमः ।
नैमिशारण्ये वायवीये । एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते । यत्रास्य शीर्यते
नेमिः स देशस्तपसः शुभः । इत्युक्त्वा सूर्यसंकाशं चक्रं सृष्ट्वा मनोमयम् ।
प्रणिपत्य महादेवं विससर्ज पितामहः । तेपि हृष्टतरा विप्राः प्रणम्य जगतां
प्रभुम्. प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्यत । तद्वनं तेन विख्यातं
नैमिशं मुनिपूजितम् । इति उक्तरूपे । नैमिषेति पाठे तु वाराहे । एवं कृत्वा ततो
देवो मुनि गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलं ।
अरण्येऽस्मिंस्ततस्त्वेतन्नैमिषारण्यसंज्ञितं । इति निर्वचनं द्रष्टव्यं ।
शुनकस्य मुनेरपत्यं शौनकः । कुलपतेः । एको दशसहस्राणि योऽन्नदानादिना भरेत् । स वै
कुलपतिः इत्युक्तलक्षणस्य । सत्रे ये यजमानास्तएव ऋत्विजो यस्मिन्बहुकर्तृके
क्रतौ स सत्रसंज्ञ तस्मिन् ॥ 5 ॥ 1-1-7 नैमिशारण्यवासिनः
तान्सर्वानृषीनुवाचेत्यन्वयः ॥ 7 ॥ 1-1-8 अहं तपोधनाः सिकीः सर्वाः कथा वेद
जानामि ॥ 8 ॥ 1-1-11 निर्दिष्टं इहोपविश्यतामिति दर्शितम् ॥ 11 ॥ 1-1-12
प्रस्तावयन् उपोद्धातयन् ॥ 12 ॥ 1-1-13 विहृतः नीतः ॥ 13 ॥ 1-1-14 तेषां
मुनीनां चादन्येषां राजादीनां च यानि चरितानि तेषामाश्रयभूतम् । भावितात्मनां
शोधितचित्तानाम् ॥ 14 ॥ 1-1-18 समन्तपञ्चकं समन्तात् पञ्चकं
परशुरामकृतहृदपञ्चकं यस्मिंस्तत् । स्यमन्तपञ्चकमित्यपि पाठो दृश्यते ॥ 18 ॥ 1-1-21 ब्रवीमि किमहं द्विजाः अहं च पुराणादिष्वन्यतमं किं ब्रवीमि
तदाज्ञापयतेति शेषः ॥ 21 ॥ 1-1-25 संस्कारोपगतां पदादिव्युत्पत्तिमतीम् ।
ब्राह्मो वाचं । ब्राह्मी तु भारती भाषेत्यमरः ॥ 25 ॥ 1-1-28 मङ्गलाचरणपूर्वकं
मुनिभिः प्रार्थितमर्थं वक्तुं प्रतिजानीते आद्यमित्यदिचतुर्भिः । हरिं
नमस्कृत्य महर्षेर्मतं प्रवक्ष्यामीत्यन्वयः । पुरुहूतं पुरुभिर्बहुभिर्होतृभिः
हूतं आहूतं । पुरुभिः सामगैः स्तुतं । ऋतं सत्यं । एकश्चासावक्षरश्च तं । एकं
अद्वितीयं समाधिकरहितमिति वा । अक्षरं नाशरहितं । व्यख्यव्यक्तं रामकृष्णादिरूपेण
दृश्यं । ज्ञानानन्दादिरूपेण मन्देरदृश्यं ॥ 28 ॥ 1-1-30 मङ्गल्यं मङ्गलप्रदं ॥ 30 ॥ 1-1-36 ज्ञानं ज्ञानसाधनं इदं भारत त्रिषु लोकेषु प्रतिष्ठितम् ॥ 36 ॥ 1-1-37 समयैः संकेतैः । छन्दोवृत्तैः
त्रिष्टुबादिछन्दोन्तीतैरिन्द्रवज्रादिभिर्वृत्तैः ॥ 37 ॥ 1-1-45 यस्मिन्
ब्रह्माण्डे ॥ 45 ॥ 1-1-52 प्रतिकल्पं सृष्टेः समाननामरूपत्वमाह यथेति ॥ 52 ॥ 1-1-53 कल्पानामानन्त्यमाह एवमिति ॥ 53 ॥ 1-1-54 एवं जडसृष्टिमुक्त्वा
चेतनसृष्टिमाह त्रयन्निंशदिति ॥ 54 ॥ 1-1-61 भूतस्थानानि नृणां वासस्थानानि
नगरादीनि ॥ 61 ॥ 1-1-64 इह सर्वमनुकान्तं अनुकमेण उक्तं ॥ 64 ॥ 1-1-65 समासः
सङ्क्षेपः । व्यासो विस्तारः ॥ 65 ॥ 1-1-66 भारतारम्भे मतभेदमाह मन्वादीति ।
मन्वादि मनुर्मन्त्रः नारायणं नमस्कृत्येति । ॐ नमो भगवते वासुदेवायेति वा
तदादि । प्रस्तीकं आस्तीकचरितं तदादि । उपरिचरो वसुः तच्चरितादि वा ॥ 66 ॥ 1-1-67 बह्वर्थत्वाद्विविधं संहिताज्ञानं दीपयन्ति प्रकाशयन्ति ॥ 67 ॥ 1-1-69
महुः सत्यवत्याः । गाङ्गेयस्य भीष्मस्य ॥ 69 ॥ 1-1-70 क्षत्र भार्यासु
अम्बिकादिषु ॥ 70 ॥ 1-1-71 परमां गतिं मृत्युं ॥ 71 ॥ 1-1-73 शशासं त्वममन्
भारतं श्रावयेत्याज्ञापितवान् ॥ 73 ॥ 1-1-84 वसोः अपत्यं स्त्री वास्त्री
तस्याः अपत्यं वासवेयो व्यासः ॥ 84 ॥ 1-1-85 कृष्णो व्यासः ॥ 85 ॥ 1-1-98
विशेषणे अतिशायने ॥ 98 ॥ 1-1-104 विटङ्काः पक्ष्युपवेशनस्थानानि ॥ 104 ॥ 1-1-105 सारो मज्जा ॥ 105 ॥ 1-1-106 विश्रामः छाया ॥ 106 ॥ 1-1-108
आश्रमस्थानसंश्रयः आश्रमवासिकस्यण्डिलः । मौसलश्रुतिसंक्षेपः मौसलादिग्रन्थः
श्रुतिस्थानीयदीर्घशाखान्तः ॥ 108 ॥ 1-1-112 यतः यत्र देशे ॥ 112 ॥ 1-1-115
अबुद्ध्वा अर्थमिति शेषः । ओमित्यङ्गीकारे ॥ 115 ॥ 1-1-116 अन्थग्रन्थिं
ग्रन्थे दुर्भेद्यस्थानं ॥ 116 ॥ 1-1-131 कृच्छ्रां आपदं व्यवायकाले
मरिष्यसीत्येवं शापरूपां । तत्र आपदि एवं सत्यामपि पार्थानां पाण्डवानां
जन्मप्रभृति आचारविधिक्रमः अभूदिति शेषः ॥ 131 ॥ 1-1-132 आचारविधिक्रममेवाह ।
मात्रोरिति । मात्रोः कुन्तीमाद्योः । धर्मोपनिषदं प्रति आपदि अपत्यार्थे
विशिष्टः पुमान्प्रार्थनीय इत्येवरूपं धर्मरहस्यं प्रति । अभ्युपपत्तिः
अङ्गीकारः ॥ 132 ॥ 1-1-137 धार्तराष्ट्रान्धृतराष्ट्रसंबन्धिगृहान् ॥ 137 ॥ 1-1-142 अन्तर्हितानां भूतानां निःस्वनः पाण्डुपुत्रा एवैते इत्येवंरूपा
अशरीरवाक् ॥ 142 ॥ 1-1-148 भर्तारं स्वयमेव वृणुत इति भर्तृस्वयंवरां ॥ 148 ॥ 1-1-150 राज्ञो युधिष्ठिरस्य ॥ 150 ॥ 1-1-157 अनभिजातवत् ग्रामीणवत् ॥ 157 ॥ 1-1-160 धृतराष्ट्रो यद्विवादानन्वमोदत यच्चानयानुपैक्षत तस्माद्वासुदेवस्य
कोपः समभवत् ॥ 160 ॥ 1-1-161 दहन् अदहत् ॥ 161 ॥ 1-1-173 प्रवृष्टं वर्षणे
प्रवृत्तं ॥ 173 ॥ 1-1-181 चेष्टाः बाहुवीक्षणाद्याः ॥ 181 ॥ 1-1-182
स्नातकानां समापितविद्याव्रतानां ब्राह्मणानां ॥ 182 ॥ 1-1-185 शंसितं
प्रशस्यं ॥ 185 ॥ 1-1-197 इमां गां पृथिवीं यस्य वासुदेवस्य एकं विक्रमं
पदमात्रमाहुः ॥ 197 ॥ 1-1-198 यौ नरनारायणौ ब्रह्मलोके अहं द्रष्टा अद्राक्षं
तौ कृष्णार्जुनौ अर्जुनकृष्णौ इति वदतो नारदस्य नारदात् ॥ 198 ॥ 1-1-200 बहुधा
विश्वरूपत्वेन ॥ 200 ॥ 1-1-202 तेषां पाण्डवानां ॥ 202 ॥ 1-1-209 सोमकानेव
अल्पशेषान्कृत्वा ॥ 209 ॥ 1-1-210 चोदितमर्जुनं च । गां भित्त्वाम्बो
वारुणेनाददाने इति पाठान्तरं ॥ 210 ॥ 1-1-223 व्यंसितां व्यर्थीकृतां ॥ 223 ॥ 1-1-237 क्रुद्धेनैषीकं चावधीद्यन्न गर्भं इति पाठान्तरम् ॥ 1-1-280 पूयन्ते
नश्यन्ति ॥ 280 ॥ 1-1-294 कार्ष्णं कृष्णेन व्यासेन प्रोक्तं ॥ 294 ॥ 1-1-301
ननु वेदेभ्यः कथमिदमधिकं अत्र युद्धप्रधानानां कर्मणां बन्धनहेतूनां
कथनादुपनिषदि तावन्मोक्षसाधनानां धर्माणां ब्रह्मणश्च प्रतिपादनादिति
चेत्तत्राह । तप इति । तपः कृच्छ्रचान्द्रायणादि नकल्कः पापनाशकं । स्वाभाविकः
स्वस्ववर्णाश्रमादिपुरस्कारेण विहितः । वेदविधिः वेदोक्तो विधिः
सन्ध्योपासनादिः । प्रसह्य प्रकर्षेण सोढ्वा क्षुधादिदुःखमपि सोढ्वा । वित्तस्य
आहरणं शिलोञ्छादिना अर्जनं । तान्येव तपआदीन्येव भावेन फलानुसन्धानेन उपहतानि
प्रतिषिद्धानि । कल्कः पापहेतुः । तथाचात्रापि मोक्षधर्मादिषु तत्रतत्र
निष्कामकर्मणां प्रतिपादनं ब्रह्मनिरूपणं चास्त्येव । अतो वेदादप्युत्तमं
भारतं ॥ 301 ॥ इति टिप्पणे प्रथमोऽध्यायः ॥ 1 ॥