अध्यायः 051

जनमेजयस्य सर्पसत्रप्रतिज्ञा ॥ 1 ॥ यज्ञसामग्रीसंपादनम् ॥ 2 ॥ दीक्षाग्रहणम् ॥ 3 ॥

सौतिरुवाच ।
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमीदितः ।
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ॥
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ।
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः ॥
अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः ।
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् ॥
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ।
अपि तत्कर्म विदितं भवतां येन पन्नगम् ॥
तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम् ।
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना ॥
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥
ऋत्विज ऊचुः ।
अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम् ।
सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते ॥
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप ।
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम् ।
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम ॥
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा ।
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे ॥
सौतिरुवाच ।
ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम ।
तं देशं मापयामासुर्यज्ञायतनकारणात् ॥
यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः ।
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम् ॥
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम् ।
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् ॥
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ।
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति ॥
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ।
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् ॥
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः ।
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा ॥
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ।
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥
एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत् ।
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥

1-51-5 मह्यं मम ॥ 1-51-7 त्वत् त्वत्तो नान्योस्ति ॥ 1-51-9 आहरिष्यामि करिष्यामि । संभ्रियन्तु संभ्रियन्ताम् ॥ 1-51-13 भविष्यति भाविनि ॥ 1-51-15 सूतो जात्या पौराणिकः शिल्पागमवेत्ता ॥ 1-51-16 नायं संस्थास्यते न समाप्स्यते ॥ 1-51-17 दीक्षाकालस्य प्रागिति प्राग्दी क्षाकालं क्षत्तारं द्वास्थम् ॥ एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥