अध्यायः 055

आस्तीककृता जनमेजययज्ञप्रशंसा ॥ 1 ॥

आस्तीक उवाच ।
सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
शक्रस्य यज्ञः शतसङ्ख्य उक्त- स्तथापरं तुल्यसङ्ख्यं शतं वै ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञसल्तथा वैश्रवणस्य राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
नृगस्य यज्ञस्त्वजमीढस्य चासी- द्यथा यज्ञो दाशरथेश्च राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
यज्ञः श्रुतो दिवि देवस्य सूनो- र्युधिष्ठिरस्याजमीढस्य राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
इमे च ते सूर्यसमानवर्चसः समासते वृत्रहणः क्रतुं यथा ।
नैषां ज्ञातुं विद्यते ज्ञानमद्य दत्तं येभ्यो न प्रणश्येत्कदाचित् ॥
ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे ।
एतस्य शिष्या हि क्षितिं संचरन्ति सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥
विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता हुतभुक्कृष्णवर्त्मा ।
प्रदक्षिमावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः ॥
नैह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम् ।
धृत्या च ते प्रतीमनाः सदाहं त्वं वा वरुणो धर्मराजो यमो वा ॥
शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् ।
मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो भूपतिरस्ति जज्ञे ॥
खट्वाङ्गनाभगदिलीपकल्प ययातिमान्धातृसमप्रभाव ।
आदित्यतेजःप्रतिमानतेजा भीष्मो यथा राजसि सुव्रतस्त्वम् ॥
वाल्मीकिवत्ते निभृतं स्ववीर्यं वसिष्ठवत्ते नियतश्च कोपः ।
प्रभुत्वमिन्द्रत्वसमं मतं मे द्युतिश्च नारायणवद्विभाति ॥
यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः ।
श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनाम् ॥
दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च ।
और्वत्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथेन ॥
सौतिरुवाच ।
एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः ।
तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥

1-55-6 देवस्य धर्मराजस्य ॥ 1-55-8 ज्ञानशब्दः कर्मव्युत्पन्नो ज्ञेयवचनः अद्य संप्रति ज्ञातुं ज्ञेयं न विद्यते सर्वस्य ज्ञातत्वादित्यर्थः ॥ 1-55-10 अग्निं स्तौति विभावसुरिति । वष्टि कामयते ॥ 1-55-12 न च त्वदन्यस्त्राता भूपतिरस्ति इदानीं न च जज्ञे प्रागपि ॥ 1-55-14 निभृतं गुप्तं । नियतो निगृहीतः ॥ 1-55-15 वसवोऽष्टौ तत्संबन्धिनीनां श्रियाम् ॥ 1-55-16 रामो भार्गवः और्वत्रितावृषी ॥ 1-55-17 भावितानि मनसि संकल्पितानि । भारतस्त्विङ्गितानीति पाठे भारतो राजा भरतवंशजत्वात् ॥ पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥