अध्यायः 056

प्रशंसया तुष्टस्य जनमेजयस्य ऋत्विग्भिः संवादः ॥ 1 ॥ ऋत्विगाह्वानेन सतक्षकस्येन्द्रस्यागमनम् ॥ 2 ॥ भयेनेन्द्रे पलायितेऽग्निसमीपे तक्षकागमनम् ॥ 3 ॥ आस्तीकस्य यज्ञसमाप्तिवरयाचनम् ॥ 4 ॥

जनमेजय उवाच ।
बालोऽप्ययं स्थविर इवावभाषते नायं बालः स्थविरोऽयं मतो मे ।
इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्राः संविदध्वं यथावत् ॥
सदस्या ऊचुः ।
बालोऽपि विप्रो मान्य एवेह राज्ञा `यश्चाविद्वान्यश्च विद्वान्यथावत् ।
प्रसादयैनं त्वरितो नरेन्द्र द्विजातिवर्यं सकलार्थसिद्धये ।' सर्वान्कामांस्त्वत्त एवार्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम् ॥
सौतिरुवाच ।
व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽब्युवाच ।
होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत् ॥
जनमेजय उवाच ।
यथा चेदं कर्म समाप्यते मे यथा च वै तक्षक एति शीघ्रम् ।
तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः ॥
ऋत्विज ऊचुः ।
यथा शस्त्राणि नः प्राहुर्यथा शंसति पावकः ।
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥
यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात् ।
स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥
पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन् ।
वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति ॥
एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्म काले ।
`इन्द्रेण सार्धं तक्षकं पातयध्वं विभावसौ न विमुच्येत नागः ।' होता च यत्तोऽस्याजुहावाथ मन्त्रै- रथो महेन्द्रः स्वयमाजगाम ॥
`आयातु चेन्द्रोऽपि सतक्षकः पते- द्विभावसौ नागराजेन तूर्णम् ।
जम्भस्य हन्तेति जुहाव होता तदा जगामाहिदत्ताभयः प्रभुः ॥'
विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः ।
बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च `नागस्य नाशो मम चैव नाशो भविष्यतीत्येव विचिन्तयानः ॥'
तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् ।
ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥
जनमेजय उवाच ।
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः ।
तमिन्द्रेणैव सहितं पातयध्यं विभावसौ ॥
सौतिरुवाच ।
जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति ।
होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा ॥
हूयमाने तथा चैव तक्षकः सपुरन्दरः ।
आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा ॥
पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत् ।
हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ ॥
इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः । मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः ।
`तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन्' ॥
ऋत्विज ऊचुः ।
अयमायाति तूर्णं स तक्षकस्ते वशं नृप ।
श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम् ॥
नूनं मुक्तो वज्रभृता स नागो भ्रष्टो नाकान्मन्त्रवित्रस्तकायः ।
घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः ॥
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो ।
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥
जनमेजय उवाच ।
बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम् ।
वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम् ॥
सौतिरुवाच ।
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि ।
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥
आस्तीक उवाच ।
वरं ददासि चेन्मह्यं वृणोमि जनमेजय ।
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥
एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः ।
नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत् ॥
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो ।
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥
आस्तीक उवाच ।
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् ।
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥
सौतिरुवाच ।
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा ।
पुनःपुनरुवाचेदमास्तीकं वदतां वरः ॥
अन्यं वरय भद्रं ते वरं द्विज्वरोत्तम ।
अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥
ततो वेदविदस्तात सदस्याः सर्व एव तम् ।
राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्पञ्चाशत्तमोऽध्यायः ॥ 56 ॥

1-56-1 संविदध्वमैकमत्यं कुरुध्वम् । संवदध्वमित्यपि पाठः ॥ 1-56-4 विद्विषाणः विद्वेषं कृतवान् । लिटः कान्च । अभ्यासलोप आर्षः ॥ 1-56-5 शस्त्राणि शंसनमन्त्रदेवताः ॥ 1-56-7 पुराणं पूर्वकल्पीयवृत्तान्तम् । आगम्य ज्ञात्वा ॥ 1-56-15 भयं आविशत् प्राप्तवान् ॥ 1-56-20 हे बाल ॥ षट्पञ्चाशत्तमोऽध्यायः ॥ 56 ॥