अध्यायः 070

ययात्युपाख्यानारम्भः ॥ 1 ॥ सञ्जीवनीविद्यालाभार्थं देवैः शुक्रसमीपे कचस्य प्रेषणम् ॥ 2 ॥ कचस्य शिष्यत्वेनाङ्गीकारः ॥ 3 ॥ दैत्यैर्हतस्य कचस्योज्जीवनम् ॥ 4 ॥ दैत्यैर्भस्मीकृत्य तन्मिश्रितसुराद्वारा स्वकुक्षिं प्रापितस्य कचस्य शुक्रेण विद्यादानपूर्वकमुज्जीवनम् ॥ 5 ॥ शुक्रेण सुरापाननिषेधः ॥ 6 ॥

जनमेजय उवाच ।
ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः ।
कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
आनुपूर्व्या च मे शंस राज्ञो वंशकरान्पृथक् ॥
वैशंपायन उवाच ।
ययातिरासीन्नृपतिर्देवराजसमद्युतिः ।
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥
तत्तेऽहं संप्रवक्ष्यामि पृच्छते जनमेजय ।
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥
सुराणामसुराणां च समजायत वै मिथः ।
ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे ॥
जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् ।
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ॥
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ।
तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान् ॥
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ।
ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान् ॥
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि ।
न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ॥
न हि वेद स तां विद्यां यां काव्योवेत्ति वीर्यवान् ।
सञ्जीविनीं ततो देवा विषादमगमन्परम् ॥
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा ।
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् ।
या सा विद्या निवसति ब्राह्मणेऽमिततेजसि ॥
शुक्रे तामाहर क्षिप्रं भागभाङ्गो भविष्यसि ।
वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः ॥
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ।
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् ॥
देवयानीं च दयितां सुतां तस्य महात्मनः ।
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते ॥
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ।
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥
वैशंपायन उवाच ।
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः ।
तदाऽभिपूजितो देवैः समीपे वृषपर्वणः ॥
स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः ।
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः ।
नाम्ना कच इति ख्यातं शिष्यं गृह्णात् मां भवान् ॥
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ ।
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥
शुक्र उवाच ।
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः ।
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥
वैशंपायन उवाच ।
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् ।
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥
व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत ।
आराधयन्नुपाध्यायं देवयानीं च भारत ॥
नित्यमाराधयिष्यंस्तां युवा यौवनगां मुनिः ।
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥
स शीलयन्देवयानीं कन्यां संप्राप्तयौवनाम् ।
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥
देवयान्यपि तं विप्रं नियमव्रतधारिणम् ।
गायन्ती च ललन्ती च रहः पर्यचरत्तथा ॥
`गायन्तं चैव शुल्कं च दातारं प्रियवादिनम् । नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा ॥'
पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् ।
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः ।
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ॥
हत्वा शालावृकेभ्यश्च प्रायच्छँल्लवशः कृतम् ।
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् ॥
सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात् ।
उवाच वचनं काले देवयान्यथ भारत ॥
देवयान्युवाच ।
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो ।
अगोपाश्चागता गावः कचस्तात न दृश्यते ॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति ।
तं विना न च जीवेयमिति सत्यं ब्रवीमि ते ॥
शुक्र उवाच ।
अयमेहीति संशब्द्य मृतं संजीवयाम्यहम् ।
वैशंपायन उवाच ।
ततः संजीविनीं विद्यां प्रयुज्य कचमाह्वयत् ॥
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः ।
आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया ॥
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम् ।
कच उवाच ।
समिधश्च कुशादीनि काष्ठभारं च भामिनि ॥
गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः ।
गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः ॥
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन् ।
बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः ॥
इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः ।
दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयं ॥
आहूतो विद्यया भद्रे भार्गवेण महात्मना ।
त्वत्समीपमिहायातः कथंचित्प्राप्तजीवितः ॥
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ।
स पुनर्देवयान्योक्तः पुष्पाण्याहर मे द्विज ॥
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम् ।
पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन् ॥
चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत् । विप्रेण पुनराहूतो विद्यया गुरुदेहजः ।
पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा ॥
ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः ।
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा ॥
`अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः ।
सा सायन्तनवेलायामगोपा गाः समागताः ॥
देवयानी शङ्कमाना दृष्ट्वा पितरमब्रवीत् ।' पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति ।
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥
`वैशंपायन उवाच ।
श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान्कचम् ।
ज्ञात्वा बहिष्ठमज्ञात्वा स्वकुक्षिस्थं कचं नृप' ॥
शुक्र उवाच ।
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः ।
विद्यया जीवितोऽप्येवं हन्यते करवाम किम् ॥
मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचते ।
यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च ॥
सुरद्विषश्चैव जगच्च सर्व- मुपस्थाने सन्नमन्ति प्रभावात् ।
अशक्योऽसौ जीवयितुं द्विजातिः संजीवितो वध्यते चैव भूयः ॥
देवयान्युवाच ।
यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः ।
ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम् ॥
स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः ।
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः ॥
शुक्र उवाच ।
असंशयं मामसुरा द्विषन्ति ये शिष्यं मेऽनागसं सूदयन्ति ।
अब्राह्मणं कर्तुमिच्छ्ति रौद्रा- स्ते मां यथा व्यभिचरन्ति नित्यम् । अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् ॥
`वैशंपायन उवाच ।
संचोदितो देवयान्या महर्षिः पुनराह्वयत् ।
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥
कचोऽपि राजन्स महानुभावो विद्याबलाल्लब्धमतिर्महात्मा ।'
गुरोर्हि भीतो विद्यया चोपहूतः । शनैर्वाक्यं जठरे व्याजहार ॥
`प्रसीद भगवन्मह्यं कचोऽहमभिवादये । यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान् ॥'
वैशंपायन उवाच ।
तमब्रवीत्केन पथोपनीत- स्त्वं चोदरे तिष्ठसि ब्रूहि विप्र ।
अस्मिन्मुहूर्ते ह्यसुरान्विनाश्य गच्छामि देवानहमद्य विप्र ॥
कच उवाच ।
तव प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्वं यच्च यथा च वृत्तम् ।
नत्वेवं स्यात्तपसः संक्षयो मे ततः क्लेशं घोरमिमं सहामि ॥
असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य ।
ब्राह्मीं मायां चासुरीं विप्र मायां त्वयि स्थिते कथमेवातिवर्तेत् ॥
शुक्र उवाच ।
किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात्कचस्य ।
नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो मद्गतो देवयानि ॥
देवयान्युवाच ।
द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः ।
कचस्य नाशे मम शर्म नास्ति तवोपघाते जीवितुं नास्मि शक्ता ॥
शुक्र उवाच ।
संसिद्धरूपोऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी ।
विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य ॥
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् ।
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥
पुत्रो भूत्वा भावय भावितो मा- मस्मद्देहादुपनिष्क्रम्य तात ।
समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥
वैशंपायन उवाच ।
गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः ।
कचोऽभिरूपस्तत्क्षणाद्ब्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥
दृष्ट्वा च तं पतितं ब्रह्मराशि- मुत्थापयामास मृतं कचोऽपि ।
विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच ॥
यः श्रोत्रयोरमृतं सन्निषिञ्चे- द्विद्यामविद्यस्य यथा त्वमार्यः ।
तं मन्येऽहं पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥
ऋतस्य दातारमनुत्तमस्य निधिं निधीनामपि लब्धविद्याः ।
ये नाद्रियन्ते गुरुमर्चनीयं पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥
वैशंपायन उवाच ।
सुरापानाद्वञ्चनां प्राप्य विद्वा- न्संज्ञानाशं चैव महातिघोरम् ।
दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन ॥
समन्युरुत्थाय महानुभाव- स्तदोशना विप्रहितं चिकीर्षुः ।
सुरापानं प्रति संजातमन्युः काव्यः स्वयं वाक्यमिदं जगाद ॥
यो ब्राह्मणोऽद्यप्रभृतीह कश्चि- न्मोहात्सुरां पास्यति मन्दबुद्धिः ।
अपेतधर्मा ब्र्हमहा चैव स स्या- दस्मिंल्लोके गर्हितः स्यात्परे च ॥
मया चैतां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके ।
सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे ॥
वैशंपायन उवाच ।
इतीदमुक्त्वा स महानुभाव- स्तपोनिधीनां निधिरप्रमेयः ।
तान्दानवान्दैवविमूढबुद्धी- निदं समाहूय वचोऽभ्युवाच ॥
आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे ।
सञ्जीविनीं प्राप्य विद्यां महात्मा तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः ॥
`योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः ।
न तत्किर्तिर्जरां गच्छेद्याज्ञीयश्च भविष्यति ॥
वैशंपायन उवाच ।'
एतावदुक्त्वा वचनं विरराम स भार्गवः ।
दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम् ॥
गुरोरुष्य सकाशे तु दश वर्षशतानि सः ।
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥ ॥

इति श्रीमन्मेहाभारते आदिपर्वणि संभवपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥

1-70-3 विप्रदानवौ वव्राते जामातृत्वेनेति शेषः ॥ 1-70-25 प्रेषणैः प्रेष्यत्वादिभिः ॥ 1-70-31 उवाच शुक्रं प्रति ॥ 1-70-39 पेषः पिष्टम् । पिष्टीकृत्येत्यर्थः ॥ 1-70-43 गुरुदेहजः कचः । आवृत्य आगत्य । तद्वृत्तमसुरचेष्टितम् ॥ 1-70-44 ब्राह्मणाय शुक्राय ॥ 1-70-50 मर्त्यं त्वं तु मत्प्रभावादमरकल्पासि । ब्रह्म वेदः तस्य नमनं स्वार्थप्रकाशेन ॥ 1-70-60 चाद्दैवीं मायां । मायात्रयविदि त्वयि सति को देवोऽसुरो ब्राह्मणो वाऽतिक्रामेदतस्त्वदुदरभेदनं मम दुःसाध्यमेवेति भावः ॥ 1-70-65 भावय जीवय भावितो मया जीवितः । कृतघ्नो मा भूरिति भावः ॥ 1-70-66 शुक्लस्याह्नो रवेर्वा अत्यये शुक्लात्यये ॥ 1-70-69 ऋतस्य वेदस्य । निधीनां विद्यानां निधिमाश्रयम् । प्रतिष्ठा विद्याफलं तच्छून्या अप्रतिष्ठाः ॥ सप्ततितमोऽध्यायः ॥ 70 ॥