अध्यायः 071

स्वपाणिग्रहणार्थं प्रार्थितवत्या देवयान्या कचस्य विवादः ॥ 1 ॥ कचदेवयान्योः परस्परशापदानम् ॥ 2 ॥

वैशंपायन उवाच ।
समावृतव्रतं तं तु विसृष्टं गुरुणा कचम् ।
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च ।
भ्राजसे विद्यया चैव तपसा च दमेन च ॥
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः ।
तथा प्रान्यश्च पूज्यश्च मम भूयो बृहस्पतिः ॥
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन ।
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥
स समावृतविद्यो मां भक्तां भजितुमर्हसि ।
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥
कच उवाच ।
पूज्यो मान्यश्च भगवान्यथा तव पिता मम ।
तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥
प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः ।
त्वं भत्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव ।
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥
देवयान्युवाच ।
गुरुपुत्रस्य पुत्रो वै न त्वं पुत्रश्च मे पितुः ।
तस्मात्पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम ॥
असुरैर्हन्यमाने च कच त्वयि पुनःपुनः ।
तदाप्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे ॥
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् ।
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥
कच उवाच ।
अनियोज्ये नियोक्तुं मां देवयानि न चार्हसि ।
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरा शुभे ॥
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने ।
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥
भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे ।
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि । अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ।
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥
देवयान्युवाच ।
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः ।
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥
कच उवाच ।
गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः ।
गुरुणा चाननुज्ञातः काममेवं शपस्व माम् ॥
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया ।
शप्तो ह्यनर्हः शापस्य कामतोऽद्य न धर्मतः ॥
तस्माद्भवत्या यः कामो न तथा स भविष्यति ।
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा ।
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥
वैशंपायन उवाच ।
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा ।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः ।
बृहस्पतिं सभाज्येदं कचं वचनमब्रुवन् ॥
देवा ऊचुः ।
यत्त्वयास्मद्धितं कर्म कृतं वै परमाद्भुतम् ।
न ते यशः प्रणशिता भागभाक्व भविष्यसि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥

1-71-1 समावृतव्रतं समाप्तव्रतम् ॥ 1-71-9 गुरुः पुत्रो यस्य अङ्गिरसः पुत्रः पौत्रः ॥ 1-71-15 उत्थिता अनलसा ॥ 1-71-17 अननुज्ञातस्त्वदुक्तकार्ये ॥ 1-71-23 प्रणशिता प्रणङ्क्ष्यति ॥ एकसप्ततितमोऽध्यायः ॥ 71 ॥