अध्यायः 073
शुक्रदेवयानीसंवादः ॥ 1 ॥
शुक्र उवाच ।
यः परेषां नरो नित्यमतिवादांस्तितिक्षते ।
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥
यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा ।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति ।
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥
यः संधारयते मन्युं योऽतिवादांस्तितिक्षते ।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥
यो यजेदपरिश्रान्तो मासिमासि शतं समाः ।
न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥
`तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ ।
क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च ॥
तस्मादक्रोधने यज्ञतपोदानफलं महत् ।
भवेदसंशयं भद्रे नेतरस्मिन्कदाचन ॥
न यतिर्न तपस्वी च न यज्वा न च धर्मभाक् ।
क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च ॥
पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता ।
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम् ॥
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः ।
न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम् ॥
देवयान्युवाच ।
वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम् ।
अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥
`स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः ।'
शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता ॥
`प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः ।'
तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते ॥
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च ।
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा ।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥
`सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः ।
दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च ॥
नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना ।
धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः ॥
अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते ।
साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत् ॥
सुकृते दुष्कृते वापि यत्र सज्जति यो नरः ।
ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत् ॥'
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ।
मम मथ्नाति हृदयमग्निकाम इवारणिम् ॥
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ।
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥
मरणं शोभनं तस्य इति विद्वज्जना विदुः ।
`अवमानमवाप्नोति शनैर्नीचसमागमात् ॥
अतिवादा वक्त्रतो निःसरन्ति
यैराहतः शोचति रात्र्यहानि ।
परस्य वै मर्मसु ते पतन्ति
तस्माद्धीरो नैव मुच्येत्परेषु ॥
निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना ।
वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम् ॥
संरोहित शरैर्विद्धं नवं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम्' ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥
1-73-2 रश्मिषु क्रोधफलभूतास्वापत्सु । पक्षे स्पष्टोऽर्थः ॥ 1-73-3 अक्रोधेन क्रोधविरोधिना सहनेन ॥ त्रिसप्ततितमोऽध्यायः ॥ 73 ॥