अध्यायः 074
शुक्रवृषपर्वणोः संवादः ॥ 1 ॥ शुक्रकोपशान्तये वृषपर्वनियोगात् शर्मिष्ठया देवयानीदास्याङ्गीकारः ॥ 2 ॥ प्रसन्नया देवयान्या सह शुक्रस्य पुरप्रवेशनम् ॥ 3 ॥
वैशंपायन उवाच ।
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह ।
वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।
शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति ॥
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ।
फलत्येव ध्रुवं पायं गुरुभुक्तमिवोदरे ॥
`अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम् ।'
यदघातयथा विप्रं कचमाङ्गिरसं तदा ।
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥
`शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो ।
विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी ॥
सा न कल्पेत वासाय तयाहं रहितः कथम् ।
वसेयमिह तस्मात्ते त्यजामि विषयं नृप ॥'
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ।
वषपर्वन्निबोधेयं त्यक्ष्यामि त्वां सबान्धवम् ।
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥
`मा शोच वृषपर्वंस्त्वं मा क्रुध्यस्व विशांपते ।
स्थातुं ते विषये राजन्न शक्ष्यामि तया विना ।
अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम ॥
वृषपर्वोवाच ।
यदि ब्रह्मन्घातयामि यदि वा क्रोशयाम्यहम् ।
शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम् ॥
शुक्र उवाच ।'
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् ।
यथेममात्मनो दोषं न नियच्छस्पुपेक्षसे ॥
वृषपर्वोवाच ।
नाधर्मं न मृषावादं त्वयि जानामि भार्गव ।
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव ।
समुद्रं संप्रवेक्ष्यामि पूर्वं मद्बान्धवैः सह ॥
पातालमथवा चाग्निं नान्यदस्ति परायणम् ।
यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप ।
सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम्' ॥
शुक्र उवाच ।
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः ।
दुहितुर्नाप्रियं सोहुं शक्तोऽहं दयिता हि मे ॥
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् ।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥
वृषपर्वोवाच ।
यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव ।
भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्चरः ॥
शुक्र उवाच ।
यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर ।
तस्येश्वरोस्मि यद्येषा देवयानी प्रसाद्यताम् ॥
वैशंपायन उवाच ।
एवमुक्तस्तथेत्याह वृषपर्वा महाकविम् ।
देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः ॥
देवयान्युवाच ।
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव ।
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥
`वैशंपायन उवाच ।
शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः ।
देवयानि प्रसीदेति पपात भुवि पादयोः ॥
वृषपर्वोवाच ।
स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे ।'
यं काममभिकामाऽसि देवयानि शुचिस्मिते ।
तत्तेऽहं संप्रदास्यामि यदि वापि हि दुर्लभम् ॥
देवयान्युवाच ।
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये ।
अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता ॥
वृषपर्वोवाच ।
उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय ।
यं च कामयते कामं देवयानी करोतु तम् ॥
`त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्' ॥
वैशंपायन उवाच ।
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् ।
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः ।
सायं कामयते कां स कार्योऽद्य त्वयाऽनघे ॥
शर्मिष्ठोवाच ।
यं सा कामयते कां करवाण्यहमद्य तम् ।
यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम् ।
मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते ॥
वैशंपायन उवाच ।
ततः कन्यासहस्रेण वृता शिबिकया तदा ।
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥
शर्मिष्ठोवाच ।
अहं दासीसहस्रेण दासी ते परिचारिका ।
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥
देवयान्युवाच ।
स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः ।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥
शर्मिष्ठोवाच ।
येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत् ।
अतस्त्वामनुयास्यामि तत्र दास्यति ते पिता ॥
वैशंपायन उवाच ।
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः ।
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥
देवयान्युवाच ।
प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम ।
अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥
वैशंपायन उवाच ।
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः ।
प्रविवेश पुरं हृष्टः पूजितः सर्वदानैवः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥