अध्यायः 076

देवयान्याः पुत्रोत्पत्तिः ॥ 1 ॥ अशोकवनिकायां शर्मिष्ठाया ययातिसमागमात्पुत्रोत्पत्तिः ॥ 2 ॥

वैशंपायन उवाच ।
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् ।
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥
देवयान्याश्चानुमते सुतां तां वृषपर्वणः ।
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥
वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम् ।
वासोभरन्नपानैश्च संविभज्य सुसत्कृताम् ॥
देवयान्या तु सहितः स नृपो नहुषात्मजः ।
`प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः ॥
अशोकवनिकामध्ये देवयानी समागता ।
शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे ॥
तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम् । एवमेव सह प्रीत्या बहु कालं मुमोद च ॥'
विजहार बहूनब्दान्देववन्मुदितः सुखी ॥
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना ।
लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ।
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥
`शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारशोभिता ।
अशोकशाखामालम्ब्य सुपुष्पस्तबकैर्वृताम् ॥
आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा ।
शोकमोहसमाविष्टा वचनं चेदमब्रवीत् ॥
अशोक शोकापनुद शोकोपहतचेतसाम् । त्वन्नामानं कुरुष्वाद्य प्रियसंदर्शनेन माम् ।
एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत् ॥'
ऋतुकालश्च संप्राप्तो न च मेऽस्ति वृतः पतिः ।
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा सुखं भवेत् ॥
देवयानी प्रजाताऽसौ वृथाऽहं प्राप्तयौवना ।
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः ।
अपीदानीं स धर्मात्मा ईयान्मे दर्शनं रहः ॥
`केशैर्बध्या तु राजानं याचेऽहं सदृशं पतिम् । स्पृहेदिदं देवयानी पुत्रमीक्ष्य पुनःपुनः ।
क्रीडन्नन्तःपुरे तस्याः क्वचित्क्षणमवाप्य च ॥
वैशंपायन उवाच ।'
अथ निष्क्रम्य राजाऽसौ तस्मिन्काले यदृच्छया ।
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप तिष्ठतीम् ॥
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी ।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥
शर्मिष्ठोवाच ।
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा ।
तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति ॥
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा ।
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥
ययातिरुवाच ।
वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम् ।
रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥
`तदाप्रभृति दृष्ट्वा त्वां स्मराम्यनिशमुत्तमे' । अब्रवीदुशना काव्यो देवयानीं यदाऽवहम् ।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥
`देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय ॥'
शर्मिष्ठोवाच ।
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितं नरेन्द्र ।
एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥
`अनृतं नानृतं स्त्रीषु परिहासविवाहयोः । आत्मप्राणार्थघाते च तदेवोत्तमतां व्रजेत् ॥'
ययातिरुवाच ।
राजा प्रमाणं भूतानां स नश्येत मृषा वदन् ।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥
शर्मिष्ठोवाच ।
समावेतौ मतो राजन्पतिः सख्याश्च यः पतिः ।
समं विवाहमित्याहुः सख्या मेऽसि वृतः पतिः ॥
`सह दत्तास्मि काव्येन देवयान्या मनीषिणा । पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि ॥'
सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च ।
याचितॄणां ददासि त्वं गोभूम्यादीनि यानि च ॥
बहिःस्थं दानमित्युक्तं न शरीराश्रितं नृप ।
दुष्करं पुत्रदानं च आत्मदानं च दुष्करम् ॥
शरीरदानात्तत्सर्वं दत्तं भवति मारिष ।
यस्य यस्य यथा कामस्तस्य तस्य ददाम्यहम् ॥
इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया । त्वयोक्तमनृतं राजन्वृथा घोषितमेव वा ।
तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा ॥
ययातिरुवाच ।
दातव्यं याचमानेभ्य इति मे व्रतमाहितम् ।
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥
`धनं वा यदि वा किंचिद्राज्यं वाऽपि शुचिस्मिते ।'
शर्मिष्ठोवाच ।
अधर्मात्पाहि मां राजन्धर्मं च प्रतिपादय ॥
`नान्यं वृणे पुत्रकामा पुत्रात्परतरं न च ।' त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥
`पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयंभुवा । अपतिर्वापि या कन्या अनपत्या च या भवेत् ।
तासां जन्म वृथा लोके गतिस्तासां न विद्यते ॥'
देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवी ।
सा चाहं च त्वया राजन्भजनीये भजस्व माम् ॥
वैशंपायन उवाच ।
एवमुक्तस्तु राजा स तथ्यमित्यभिजज्ञिवान् ।
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥
स समागम्य शर्मिष्ठां यथा काममवाप्य च ।
अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम् ॥
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी ।
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥
प्रयज्ञे च ततः काले राजन्राजीवलोचना ।
कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥