अध्यायः 077

शर्मिष्ठापुत्रदर्शनेन देवयान्याः शर्मिष्ठया सह संवादः ॥ 1 ॥ देवयानीशर्मिष्ठयोः पुत्रान्तरोत्पत्तिः ॥ 2 ॥ शर्मिष्ठापुत्रान्ययातिजाञ्ज्ञात्वा कुपितायाः देवयान्याः शुक्रसमीपे गमनम् ॥ 3 ॥ ययातेः शुक्रशापाज्जराप्राप्तिः ॥ 4 ॥ तस्या अन्यस्मिन्संक्रमणरूपवरप्राप्तिः ॥ 5 ॥

वैशंपायन उवाच ।
`तस्मिन्नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना ।
स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह ॥
प्रजानां श्रीरिवाभ्याशे शर्मिष्ठा ह्यभवद्वधूः ।
पन्नगीवोग्ररूपा वै देवयानी ममाप्यभूत् ॥
पर्जन्य इव सस्यानां देवानाममृतं यथा । तद्वन्ममापि संभूता शर्मिष्ठा वार्षपर्वणी ।
इत्येवं मनसा ज्ञात्वा देवयानीमवर्जयत् ॥'
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता ।
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् ।
देवयान्वुवाच ।
किमिदं वृजिनं सुभ्रु कृतं वै कामलुब्धया ॥
शर्मिष्ठोवाच ।
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः ।
स मया वरदः कामं याचितो धर्मसंहितम् ॥
`अपत्यार्थे स तु मया वृतो वै चारुहासिनि' । नाहमन्यायतः काममाचरामि शुचिस्मिते ।
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥
देवयान्युवाच ।
शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः ।
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥
शर्मिष्ठोवाच ।
तपसा तेजसा चैव दीप्यमानं यथा रविम् ।
तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥
देवयान्युवाच ।
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम ।
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥
वैशंपायन उवाच ।
अन्योन्यमेवमुक्त्वा तु संप्रहस्य च ते मिथः ।
जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी ॥
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः ।
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥
`तस्मिन्काले तु राजर्षिर्ययातिः पृथिवीपतिः ।
माध्वीकरससंयुक्तां मदिरां मदवर्धनीम् ॥
पाययामास शुक्रस्य तनयां रक्तपिङ्गलाम् ।
पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा ॥
रुदती गायमाना च नृत्यन्ती च मुहुर्मुहुः ।
बहु प्रलपती देवी राजानमिदमब्रवीत् ॥
राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः ।
केन कार्येण संप्राप्तो निर्जनं गहनं वनम् ॥
द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः ।
तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज ॥
इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः ।
भर्त्सयामास वचनैरनर्हां पापवर्धनीम् ॥
ततो वर्षवरान्मूकान्व्यङ्गान्वृद्धांश्च पङ्गुकान् ।
रक्षणे देवयान्याः स पोषणे च शशास तान् ॥
ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान् । रेमे च सुचिरं कालं तया शर्मिष्ठया सह ॥'
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी ।
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता ।
ययातिसहिता राजञ्जगाम रहितं वनम् ॥
ददर्श च तदा तत्र कुमारान्देवरूपिणः ।
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥
देवयान्युवाच ।
`कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः ।
वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥
वैशंपायन उवाच ।
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत ॥
तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत् ।
किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम् ॥
कुमारा ऊचुः ।
ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता । शर्मिष्ठा नानृतं ब्रूते देवयानि क्षमस्व नः ॥'
देवयान्युवाच ।
किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ।
प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते ॥
प्रब्रूत मे यथा तथ्यं श्रोतुमिच्छामि तं ह्यहम् ।
एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया ॥
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् ।
शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः ॥
वैशंपायन उवाच ।
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः ।
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ॥
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ।
`अविब्रुवन्ती किंचिच्च राजानं चारुलोचना ॥
नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी ।
श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः ॥
प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः ।
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति ॥
बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठापिदमब्रवीत् ।
अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः ॥
ययातिमेवं राजानं त्वं गोपायसि भामिनि ।
पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम् ॥
मदधीना सती कस्मादकार्षीर्विप्रियं मम । तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि मे ॥'
शर्मिष्ठोवाच ।
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि ।
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥
यदा त्वया वृतो भर्ता वृत एव तदा मया ।
सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥
पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि ।
त्वत्तोपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥
`त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे ।
ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम् ॥
वैशंपायन उवाच ।
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् ।
रमस्वेह यथाकामं देव्या शर्मिष्ठया सह ॥
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ।
इति जज्वाल कोपेन देवयानी ततो भृशम् ॥
निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च । अपविध्य च सर्वाणि भूषणान्यसितेक्षणा ॥'
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् ।
तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः ।
न्यवर्तत नचैव स्म क्रोधसंरक्तलोचना ॥
अविब्रुवन्ती किंचित्सा राजानं साश्रुलोचना ।
अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिकम् ॥
सा तु दृष्ट्वै पितरमभिवाद्याग्रतः स्थिता ।
अनन्तरं यायातिस्तु पूजयामास भार्गवम् ॥
देवयान्युवाच ।
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् ।
शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः ॥
त्रयोऽस्यां जनिताः पुत्रा राज्ञाऽनेन ययातिना ।
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह ।
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥
शुक्र उवाच ।
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् ।
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥
ययातिरुवाच ।
ऋतुं वै याचमानाया भगवन्नान्यचेतसा ।
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥
ऋतुं वै याचमानाया न ददाति पुमानृतुम् ।
भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः ॥
अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः ।
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥
`यद्यद्वृणोति मां कश्चित्तत्तद्देयमिति व्रतम् ।
त्वया च सापि दत्ता मे नान्यं नाथमिहेच्छति' ॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ।
`मत्वैतन्मे धर्म इति कृतं ब्रह्मन्क्षमस्व माम् ॥'
शुक्र उवाच ।
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव ।
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥
वैशंपायन उवाच ।
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा ।
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥
ययातिरुवाच ।
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह ।
प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच्च माम् ॥
शुक्र उवाच ।
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप ।
जरां त्वेतां त्वमन्यस्मिन्संक्रामय यदीच्छसि ॥
ययातिरुवाच ।
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा ।
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥
शुक्र उवाच ।
संक्रामयिष्यसि जरां येथेष्टं नहुषात्मज ।
मामनुध्याय भावेन न च पापमवाप्स्यसि ॥
वयो दास्यति ते पुत्रो यः स राजा भविष्यति ।
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

1-77-49 अधरोत्तरं नीचस्याभिवृद्धिरुत्तमस्य ह्रासः । अतिवृत्तास्मि राज्ञः सकाशादपत्यत्रयाधिगमनेतिक्रान्तोल्लङ्घिताऽस्मि ॥ 1-77-52 अधर्ममेव प्रियमकृथाः ॥ 1-77-53 नान्यचेतसा न कामलोभेन ॥ 1-77-58 प्रत्यवेक्ष्यः अस्मिन्मकर्मणि मदाज्ञापि त्वया प्रार्थनीयेति भावः ॥ 1-77-62 ज्येष्ठस्य राज्याप्रदानजं पापम् ॥ सप्तसप्ततितमोऽध्यायः ॥ 77 ॥